Divyesh Joshi

પુરાણ જ્ઞાન : राघवाष्टकम्

राघवाष्टकम्

puran gyan

 


*जय द्वारकाधीश*

*॥ राघवाष्टकम् ॥* 

राघवं करुणाकरं मुनि-सेवितं सुर-वन्दितं जानकीवदनारविन्द-दिवाकरं गुणभाजनम् ।
 वालिसूनु-हितैषिणं हनुमत्प्रियं कमलेक्षणं यातुधान-भयंकरं प्रणमामि राघवकुञ्जरम् ॥ १॥ 

मैथिलीकुच-भूषणामल-नीलमौक्तिकमीश्वरं रावणानुजपालनं रघुपुङ्गवं मम दैवतम् ।
 नागरी-वनिताननांबुज-बोधनीय-कलेवरं सूर्यवंशविवर्धनं प्रणमामि राघवकुञ्जरम् ॥ २॥ 

हेमकुण्डल-मण्डितामल-कण्ठदेशमरिन्दमं शातकुंभ-मयूरनेत्र-विभूषणेन-विभूषितम् ।
 चारुनूपुर-हार-कौस्तुभ-कर्णभूषण-भूषितं भानुवंश-विवर्धनं प्रणमामि राघवकुञ्जरम् ॥ ३॥ 

दण्डकाख्यवने रतामर-सिद्धयोगि-गणाश्रयं शिष्टपालन-तत्परं धृतिशालिपार्थ-कृतस्तुतिम् । 
कुंभकर्ण-भुजाभुजंगविकर्तने सुविशारदं लक्ष्मणानुजवत्सलं प्रणमामि राघवकुञ्जरम् ॥ ४॥ 

केतकी-करवीर-जाति-सुगन्धिमाल्य-सुशोभितं श्रीधरं मिथिलात्मजाकुच-कुंकुमारुण-वक्षसम् । 
देवदेवमशेषभूत-मनोहरं जगतां पतिं दासभूतभयापहं प्रणमामि राघवकुञ्जरम् ॥ ५॥ 

यागदान-समाधि-होम-जपादिकर्मकरैर्द्विजैः वेदपारगतैरहर्निशमादरेण सुपूजितम् ।
 ताटकावधहेतुमंगदतात-वालि-निषूदनं पैतृकोदितपालकं प्रणमामि राघवकुञ्जरम् ॥ ६॥ 

लीलया खरदूषणादि-निशाचराशु-विनाशनं रावणान्तकमच्युतं हरियूथकोटि-गणाश्रयम् । 
नीरजाननमंबुजांघ्रियुगं हरिं भुवनाश्रयं देवकार्य-विचक्षणं प्रणमामि राघवकुञ्जरम् ॥ ७॥ 

कौशिकेन सुशिक्षितास्त्र-कलापमायत-लोचनं चारुहासमनाथ-बन्धुमशेषलोक-निवासिनम् ।
 वासवादि-सुरारि-रावणशासनं च परांगतिं नीलमेघ-निभाकृतिं प्रणमामि राघवकुञ्जरम् ॥ ८॥ 

राघवाष्टकमिष्टसिद्धिदमच्युताश्रय-साधकं मुक्ति-भुक्तिफलप्रदं धन-धान्य-सिद्धि-विवर्धनम् ।
 रामचन्द्र-कृपाकटाक्षदमादरेण सदा जपेत् रामचन्द्र-पदांबुजद्वय-सन्ततार्पित-मानसः ॥ ९॥ 

राम राम नमोऽस्तु ते जय रामभद्र नमोऽस्तु ते रामचन्द्र नमोऽस्तु ते जय राघवाय नमोऽस्तु ते ।
 देवदेव नमोऽस्तु ते जय देवराज नमोऽस्तु ते वासुदेव नमोऽस्तु ते जय वीरराज नमोऽस्तु ते ॥ १०॥ 

                                                ॥ इति श्रीराघवाष्टकं संपूर्णम् ॥ 


Featured Post

राघवाष्टकम्

  *जय द्वारकाधीश* *॥ राघवाष्टकम् ॥*  राघवं करुणाकरं मुनि-सेवितं सुर-वन्दितं जानकीवदनारविन्द-दिवाकरं गुणभाजनम् ।  वालिसूनु-हितैषिणं हनुमत्प्र...