Divyesh Joshi

પુરાણ જ્ઞાન : ઉપાય
લેબલ ઉપાય સાથે પોસ્ટ્સ બતાવી રહ્યું છે. બધી પોસ્ટ્સ બતાવો
લેબલ ઉપાય સાથે પોસ્ટ્સ બતાવી રહ્યું છે. બધી પોસ્ટ્સ બતાવો

श्रीकालिकाष्टकम्



*श्रीकालिकाष्टकम्* 


ध्यानम् । 


                 गलद्रक्तमुण्डावलीकण्ठमाला महोघोररावा सुदंष्ट्रा कराला । 
                विवस्त्रा श्मशानालया मुक्तकेशी महाकालकामाकुला कालिकेयम् ॥ १॥ 
                भुजेवामयुग्मे शिरोऽसिं दधाना वरं दक्षयुग्मेऽभयं वै तथैव ।
                सुमध्याऽपि तुङ्गस्तना भारनम्रा लसद्रक्तसृक्कद्वया सुस्मितास्या ॥ २॥ 
                शवद्वन्द्वकर्णावतंसा सुकेशी लसत्प्रेतपाणिं प्रयुक्तैककाञ्ची ।
                शवाकारमञ्चाधिरूढा शिवाभिश्- चतुर्दिक्षुशब्दायमानाऽभिरेजे ॥ ३॥ 


॥ अथ स्तुतिः ॥ 


विरञ्च्यादिदेवास्त्रयस्ते गुणास्त्रीन् समाराध्य कालीं प्रधाना बभूबुः ।
 अनादिं सुरादिं मखादिं भवादिं स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥ १॥ 

जगन्मोहिनीयं तु वाग्वादिनीयं सुहृत्पोषिणीशत्रुसंहारणीयम् । 
वचस्तम्भनीयं किमुच्चाटनीयं स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥ २॥ 

इयं स्वर्गदात्री पुनः कल्पवल्ली मनोजास्तु कामान् यथार्थं प्रकुर्यात् ।
 तथा ते कृतार्था भवन्तीति नित्यं स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥ ३॥ 

सुरापानमत्ता सुभक्तानुरक्ता लसत्पूतचित्ते सदाविर्भवत्ते ।
 जपध्यानपूजासुधाधौतपङ्का स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥ ४॥ 

चिदानन्दकन्दं हसन् मन्दमन्दं शरच्चन्द्रकोटिप्रभापुञ्जबिम्बम् ।
 मुनीनां कवीनां हृदि द्योतयन्तं स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥ ५॥ 

महामेघकाली सुरक्तापि शुभ्रा कदाचिद् विचित्राकृतिर्योगमाया ।
 न बाला न वृद्धा न कामातुरापि स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥ ६॥ 

क्षमस्वापराधं महागुप्तभावं मया लोकमध्ये प्रकाशिकृतं यत् । 
तव ध्यानपूतेन चापल्यभावात् स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥ ७॥ 

यदि ध्यानयुक्तं पठेद् यो मनुष्यस्- तदा सर्वलोके विशालो भवेच्च ।
 गृहे चाष्टसिद्धिर्मृते चापि मुक्तिः स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥ ८॥ 

॥ इति श्रीमच्छङ्कराचार्यविरचितं श्रीकालिकाष्टकं सम्पूर्णम् ॥

श्री अपराजिता स्तोत्र



श्रीत्रैलोक्यविजया अपराजितास्तोत्रम्



भगवान श्रीराम ने भी रावण पर विजय पाने के लिए युद्ध से पहले अपराजिता अनुष्ठान किया था।



ॐ नमोऽपराजितायै ।
ॐ अस्या वैष्णव्याः पराया अजिताया महाविद्यायाः वामदेव-बृहस्पति-मार्केण्डेया ऋषयः ।गायत्र्युष्णिगनुष्टुब्बृहती छन्दांसि । लक्ष्मीनृसिंहो देवता । ॐ क्लीं श्रीं ह्रीं बीजम् । हुं शक्तिः । सकलकामनासिद्ध्यर्थं अपराजितविद्यामन्त्रपाठे विनियोगः ।
 ॐ निलोत्पलदलश्यामां भुजङ्गाभरणान्विताम् । शुद्धस्फटिकसङ्काशां चन्द्रकोटिनिभाननाम् ॥ १॥
शङ्खचक्रधरां देवी वैष्ण्वीमपराजिताम्
बालेन्दुशेखरां देवीं वरदाभयदायिनीम् ॥ २॥
नमस्कृत्य पपाठैनां मार्कण्डेयो महातपाः ॥ ३॥
मार्ककण्डेय उवाच –
शृणुष्वं मुनयः सर्वे सर्वकामार्थसिद्धिदाम् ।
असिद्धसाधनीं देवीं वैष्णवीमपराजिताम् ॥ ४॥

ॐ नमो नारायणाय, नमो भगवते वासुदेवाय, नमोऽस्त्वनन्ताय सहस्रशीर्षायणे, क्षीरोदार्णवशायिने, शेषभोगपर्य्यङ्काय, गरुडवाहनाय, अमोघाय अजाय अजिताय पीतवाससे,
ॐ वासुदेव सङ्कर्षण प्रद्युम्न, अनिरुद्ध, हयग्रिव, मत्स्य कूर्म्म, वाराह नृसिंह, अच्युत, वामन, त्रिविक्रम, श्रीधर राम राम राम । वरद, वरद, वरदो भव, नमोऽस्तु ते, नमोऽस्तुते, स्वाहा,
 ॐ असुर-दैत्य-यक्ष-राक्षस-भूत-प्रेत-पिशाच-कूष्माण्ड- सिद्ध-योगिनी-डाकिनी-शाकिनी-स्कन्दग्रहान् उपग्रहान्नक्षत्रग्रहांश्चान्या हन हन पच पच मथ मथ विध्वंसय विध्वंसय विद्रावय विद्रावय चूर्णय चूर्णय शङ्खेन चक्रेण वज्रेण शूलेन गदया मुसलेन हलेन भस्मीकुरु कुरु स्वाहा ।
 ॐ सहस्रबाहो सहस्रप्रहरणायुध, जय जय, विजय विजय, अजित, अमित, अपराजित, अप्रतिहत, सहस्रनेत्र, ज्वल ज्वल, प्रज्वल प्रज्वल, विश्वरूप बहुरूप, मधुसूदन, महावराह, महापुरुष, वैकुण्ठ, नारायण, पद्मनाभ, गोविन्द, दामोदर, हृषीकेश, केशव, सर्वासुरोत्सादन, सर्वभूतवशङ्कर, सर्वदुःस्वप्नप्रभेदन, सर्वयन्त्रप्रभञ्जन, सर्वनागविमर्दन, सर्वदेवमहेश्वर, सर्वबन्धविमोक्षण,सर्वाहितप्रमर्दन, सर्वज्वरप्रणाशन, सर्वग्रहनिवारण, सर्वपापप्रशमन, जनार्दन, नमोऽस्तुते स्वाहा ।
विष्णोरियमनुप्रोक्ता सर्वकामफलप्रदा ।
 सर्वसौभाग्यजननी सर्वभीतिविनाशिनी ॥ ५॥
सर्वैंश्च पठितां सिद्धैर्विष्णोः परमवल्लभा ।
नानया सदृशं किङ्चिद्दुष्टानां नाशनं परम् ॥ ६॥
विद्या रहस्या कथिता वैष्णव्येषापराजिता ।
पठनीया प्रशस्ता वा साक्षात्सत्त्वगुणाश्रया ॥ ७॥
ॐ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ॥ ८॥
अर्थात:- सम्प्रवक्ष्यामि ह्यभयामपराजिताम् ।
या शक्तिर्मामकी वत्स रजोगुणमयी मता ॥ ९॥
सर्वसत्त्वमयी साक्षात्सर्वमन्त्रमयी च या ।
 या स्मृता पूजिता जप्ता न्यस्ता कर्मणि योजिता ।
सर्वकामदुधा वत्स शृणुष्वैतां ब्रवीमि ते ॥ १०॥
य इमामपराजितां परमवैष्णवीमप्रतिहतां पठति सिद्धां स्मरति सिद्धां महाविद्यां जपति पठति शृणोति स्मरति धारयति कीर्तयति वा न तस्याग्निवायुवज्रोपलाशनिवर्षभयं, न समुद्रभयं, न ग्रहभयं, न चौरभयं, न शत्रुभयं, न शापभयं वा भवेत् । क्वचिद्रात्र्यन्धकारस्त्रीराजकुलविद्वेषि-विषगरगरदवशीकरण- विद्वेष्णोच्चाटनवधबन्धनभयं वा न भवेत् ।
एतैर्मन्त्रैरुदाहृतैः सिद्धैः संसिद्धपूजितैः ।
ॐ नमोऽस्तुते ।
अभये, अनघे, अजिते, अमिते, अमृते, अपरे, अपराजिते, पठति, सिद्धे जयति सिद्धे, स्मरति सिद्धे, एकोनाशीतितमे, एकाकिनि, निश्चेतसि, सुद्रुमे, सुगन्धे, एकान्नशे, उमे ध्रुवे, अरुन्धति, गायत्रि, सावित्रि, जातवेदसि, मानस्तोके, सरस्वति, धरणि, धारणि, सौदामनि, अदिति, दिति, विनते, गौरि, गान्धारि, मातङ्गी कृष्णे, यशोदे, सत्यवादिनि, ब्रह्मवादिनि, कालि, कपालिनि, करालनेत्रे, भद्रे, निद्रे, सत्योपयाचनकरि, स्थलगतं जलगतं अन्तरिक्षगतं वा मां रक्ष सर्वोपद्रवेभ्यः स्वाहा । यस्याः प्रणश्यते पुष्पं गर्भो वा पतते यदि ।
म्रियते बालको यस्याः काकवन्ध्या च या भवेत् ॥ ११॥
धारयेद्या इमां विद्यामेतैर्दोषैर्न लिप्यते ।
गर्भिणी जीववत्सा स्यात्पुत्रिणी स्यान्न संशयः ॥ १२॥
भूर्जपत्रे त्विमां विद्यां लिखित्वा गन्धचन्दनैः ।
एतैर्दोषैर्न लिप्येत सुभगा पुत्रिणी भवेत् ॥ १३॥
रणे राजकुले द्यूते नित्यं तस्य जयो भवेत् ।
शस्त्रं वारयते ह्योषा समरे काण्डदारुणे ॥ १४॥
गुल्मशूलाक्षिरोगाणां क्षिप्रं नाश्यति च व्यथाम् ॥ शिरोरोगज्वराणां न नाशिनी सर्वदेहिनाम् ॥ १५॥
इत्येषा कथिता विध्या अभयाख्याऽपराजिता ।
एतस्याः स्मृतिमात्रेण भयं क्वापि न जायते ॥ १६॥
नोपसर्गा न रोगाश्च न योधा नापि तस्कराः ।
न राजानो न सर्पाश्च न द्वेष्टारो न शत्रवः ॥१७॥
यक्षराक्षसवेताला न शाकिन्यो न च ग्रहाः ।
अग्नेर्भयं न वाताच्व न स्मुद्रान्न वै विषात् ॥ १८॥
कार्मणं वा शत्रुकृतं वशीकरणमेव च ।
 उच्चाटनं स्तम्भनं च विद्वेषणमथापि वा ॥ १९॥
न किञ्चित्प्रभवेत्तत्र यत्रैषा वर्ततेऽभया ।
पठेद् वा यदि वा चित्रे पुस्तके वा मुखेऽथवा ॥ २०॥
हृदि वा द्वारदेशे वा वर्तते ह्यभयः पुमान् ।
हृदये विन्यसेदेतां ध्यायेद्देवीं चतुर्भुजाम् ॥ २१॥
रक्तमाल्याम्बरधरां पद्मरागसमप्रभाम् । पाशाङ्कुशाभयवरैरलङ्कृतसुविग्रहाम् ॥ २२॥
साधकेभ्यः प्रयच्छन्तीं मन्त्रवर्णामृतान्यपि ।
नातः परतरं किञ्चिद्वशीकरणमनुत्तमम् ॥ २३॥
रक्षणं पावनं चापि नात्र कार्या विचारणा ।
प्रातः कुमारिकाः पूज्याः खाद्यैराभरणैरपि ।
तदिदं वाचनीयं स्यात्तत्प्रीत्या प्रीयते तु माम् ॥ २४॥
ॐ अथातः सम्प्रवक्ष्यामि विद्यामपि महाबलाम् ।
 सर्वदुष्टप्रशमनीं सर्वशत्रुक्षयङ्करीम् ॥ २५॥
दारिद्र्यदुःखशमनीं दौर्भाग्यव्याधिनाशिनीम् ।
भूतप्रेतपिशाचानां यक्षगन्धर्वरक्षसाम् ॥ २६॥
डाकिनी शाकिनी-स्कन्द-कूष्माण्डानां च नाशिनीम् ।
महारौद्रिं महाशक्तिं सद्यः प्रत्ययकारिणीम् ॥ २७॥
गोपनीयं प्रयत्नेन सर्वस्वं पार्वतीपतेः ।
तामहं ते प्रवक्ष्यामि सावधानमनाः शृणु ॥ २८॥
एकान्हिकं द्व्यन्हिकं च चातुर्थिकार्द्धमासिकम् ।
द्वैमासिकं त्रैमासिकं तथा चातुर्मासिकम् ॥ २९॥
पाञ्चमासिकं षाङ्मासिकं वातिक पैत्तिकज्वरम् ।
श्लैष्पिकं सात्रिपातिकं तथैव सततज्वरम् ॥ ३०॥
मौहूर्तिकं पैत्तिकं शीतज्वरं विषमज्वरम् ।
द्व्यहिन्कं त्र्यह्निकं चैव ज्वरमेकाह्निकं तथा ।
क्षिप्रं नाशयेते नित्यं स्मरणादपराजिता ॥ ३१॥
ॐ हॄं हन हन, कालि शर शर, गौरि धम्, धम्, विद्ये आले ताले माले गन्धे बन्धे पच पच विद्ये नाशय नाशय पापं हर हर संहारय वा दुःखस्वप्नविनाशिनि कमलस्तिथते विनायकमातः रजनि सन्ध्ये, दुन्दुभिनादे, मानसवेगे, शङ्खिनि, चाक्रिणि गदिनि वज्रिणि शूलिनि अपमृत्युविनाशिनि विश्वेश्वरि द्रविडि द्राविडि द्रविणि द्राविणि केशवदयिते पशुपतिसहिते दुन्दुभिदमनि दुर्म्मददमनि । शबरि किराति मातङ्गि ॐ द्रं द्रं ज्रं ज्रं क्रं क्रं तुरु तुरु ॐ द्रं कुरु कुरु ।
ये मां द्विषन्ति प्रत्यक्षं परोक्षं वा तान् सर्वान् दम दम मर्दय मर्दय तापय तापय गोपय गोपय पातय पातय शोषय शोषय उत्सादय उत्सादय ब्रह्माणि वैष्णवि माहेश्वरि कौमारि वाराहि नारसिंहि ऐन्द्रि चामुण्डे महालक्ष्मि वैनायिकि औपेन्द्रि आग्नेयि चण्डि नैरृति वायव्ये सौम्ये ऐशानि ऊर्ध्वमधोरक्ष प्रचण्डविद्ये इन्द्रोपेन्द्रभगिनि ।
ॐ नमो देवि जये विजये शान्ति स्वस्ति-तुष्टि पुष्टि- विवर्द्धिनि । कामाङ्कुशे कामदुधे सर्वकामवरप्रदे ।
सर्वभूतेषु मां प्रियं कुरु कुरु स्वाहा ।
आकर्षणि आवेशनि-, ज्वालामालिनि-, रमणि रामणि, धरणि धारिणि, तपनि तापिनि, मदनि मादिनि, शोषणि सम्मोहिनि । नीलपताके महानीले महागौरि महाश्रिये ।
महाचान्द्रि महासौरि महामायूरि आदित्यरश्मि जाह्नवि । यमघण्टे किणि किणि चिन्तामणि ।
सुगन्धे सुरभे सुरासुरोत्पन्ने सर्वकामदुघे ।
यद्यथा मनीषितं कार्यं तन्मम सिद्ध्यतु स्वाहा ।
ॐ स्वाहा । ॐ भूः स्वाहा । ॐ भुवः स्वाहा । ॐ स्वः स्वहा । ॐ महः स्वहा । ॐ जनः स्वहा । ॐ तपः स्वाहा । ॐ सत्यं स्वाहा । ॐ भूर्भुवः स्वः स्वाहा ।
यत एवागतं पापं तत्रैव प्रतिगच्छतु स्वाहेत्योम् ।
अमोघैषा महाविद्या वैष्णवी चापराजिता ॥ ३२॥
स्वयं विष्णुप्रणीता च सिद्धेयं पाठतः सदा ।
 एषा महाबला नाम कथिता तेऽपराजिता ॥ ३३॥
नानया सद्रशी रक्षा। त्रिषु लोकेषु विद्यते ।
तमोगुणमयी साक्षद्रौद्री शक्तिरियं मता ॥ ३४॥
कृतान्तोऽपि यतो भीतः पादमूले व्यवस्थितः ।
 मूलधारे न्यसेदेतां रात्रावेनं च संस्मरेत् ॥ ३५॥
नीलजीमूतसङ्काशां तडित्कपिलकेशिकाम् । उद्यदादित्यसङ्काशां नेत्रत्रयविराजिताम् ॥ ३६॥
शक्तिं त्रिशूलं शङ्खं च पानपात्रं च विभ्रतीम् । व्याघ्रचर्मपरीधानां किङ्किणीजालमण्डिताम् ॥ ३७॥
धावन्तीं गगनस्यान्तः तादुकाहितपादकाम् ।
दंष्ट्राकरालवदनां व्यालकुण्डलभूषिताम् ॥ ३८॥
व्यात्तवक्त्रां ललज्जिह्वां भृकुटीकुटिलालकाम् ।
 स्वभक्तद्वेषिणां रक्तं पिबन्तीं पानपात्रतः ॥ ३९॥
सप्तधातून् शोषयन्तीं क्रुरदृष्टया विलोकनात् ।
त्रिशूलेन च तज्जिह्वां कीलयनतीं मुहुर्मुहः ॥ ४०॥
पाशेन बद्ध्वा तं साधमानवन्तीं तदन्तिके ।
अर्द्धरात्रस्य समये देवीं धायेन्महाबलाम् ॥ ४१॥
यस्य यस्य वदेन्नाम जपेन्मन्त्रं निशान्तके ।
तस्य तस्य तथावस्थां कुरुते सापि योगिनी ॥ ४२॥
ॐ बले महाबले असिद्धसाधनी स्वाहेति ।
अमोघां पठति सिद्धां श्रीवैष्ण्वीम् ॥ ४३॥
श्रीमदपराजिताविद्यां ध्यायेत् ।
 दुःस्वप्ने दुरारिष्टे च दुर्निमित्ते तथैव च ।
व्यवहारे भेवेत्सिद्धिः पठेद्विघ्नोपशान्तये ॥ ४४॥
यदत्र पाठे जगदम्बिके मया विसर्गबिन्द्वऽक्षरहीनमीडितम् । तदस्तु सम्पूर्णतमं प्रयान्तु मे सङ्कल्पसिद्धिस्तु सदैव जायताम् ॥ ४५॥

तव तत्त्वं न जानामि कीदृशासि महेश्वरि ।
 यादृशासि महादेवी तादृशायै नमो नमः ॥ ४६॥


विशेष:- इस स्तोत्र का विधिवत पाठ करने से सब प्रकार के रोग तथा सब प्रकार के शत्रु और सब बन्ध्या दोष नष्ट होता है । विशेष रूप से मुकदमें में सफलता और राजकीय कार्यों में अपराजित रहने के लिये यह पाठ रामबाण है ।

https://abotibrahman15.blogspot.com

अङ्गारकस्तोत्रम्


  પુરાણ જ્ઞાન


             *॥ अङ्गारकस्तोत्रम् ॥* 


अस्य श्री अङ्गारकस्तोत्रस्य । विरूपाङ्गिरस ऋषिः । अग्निर्देवता । गायत्री छन्दः । भौमप्रीत्यर्थं जपे विनियोगः । 


अङ्गारकः शक्तिधरो लोहिताङ्गो धरासुतः ।
 कुमारो मङ्गलो भौमो महाकायो धनप्रदः ॥ १॥ 

ऋणहर्ता दृष्टिकर्ता रोगकृद्रोगनाशनः । 
विद्युत्प्रभो व्रणकरः कामदो धनहृत् कुजः ॥ २॥ 

सामगानप्रियो रक्तवस्त्रो रक्तायतेक्षणः । 
लोहितो रक्तवर्णश्च सर्वकर्मावबोधकः ॥ ३॥ 

रक्तमाल्यधरो हेमकुण्डली ग्रहनायकः । 
नामान्येतानि भौमस्य यः पठेत्सततं नरः ॥ ४॥ 

ऋणं तस्य च दौर्भाग्यं दारिद्र्यं च विनश्यति ।
 धनं प्राप्नोति विपुलं स्त्रियं चैव मनोरमाम् ॥ ५॥ 

वंशोद्द्योतकरं पुत्रं लभते नात्र संशयः । 
योऽर्चयेदह्नि भौमस्य मङ्गलं बहुपुष्पकैः ॥ ६॥ 

सर्वा नश्यति पीडा च तस्य ग्रहकृता ध्रुवम् ॥ ७॥ 

॥ इति श्रीस्कन्दपुराणे अङ्गारकस्तोत्रं संपूर्णम् ॥ 

ભાગ્યોદય ક્યારે થાય.....?

https://abotibrahman15.blogspot.com

लग्न और भाग्योदय 


भाग्य को मजबूत करने के निम्न उपाय करने चाहिए।


बुध भाग्येश के उपाय : 

1. तांबे का कड़ा हाथ में पहने । 
2. गणेश जी की आराधना करें। 
3. गाय को हरा चारा दीजिये।   

                                                                 शुक्र भाग्येश :


1. स्फटिक की माला से शुक्र के मत्र  का जप करें। 
2.  चावल का दान करें। 
3. लक्ष्मी जी की आराधना करें।

चंद्र भाग्येश : 


1.चंद्र के मत्र  का जप करें । 
2. चांदी के गिलास में जल पिना चाहिए। 
3. शिव जी की आराधना करें।

गुरु भाग्येश :  


1. विष्णु जी की आराधना करें। 
2. गाय को रोटी  खिलाएं।
3.  पीली वस्तुओं का दान  करना चाहिए । 

शनि भाग्येश : 


1. काले वस्त्रों ,नीले वस्त्रों को कम  या न पहनें। 
2. पीपल के वृक्ष के नीचे दीपक जलाएं। 
3. शनिवार को हनुमान चालीसा का पाठ करना चाहिए। 

मंगल भाग्येश : 


1. मजदूरों को मंगलवार को मिठाई खिलाना चाहिए । 
2. लाल मसूर का दान करना चाहिए ।
3. मंगलवार को सुंदर कांड का पाठ करना चाहिए । 

सूर्य भाग्येश : 

1. गायत्री मंत्र का जप करना चाहिए । 
2. सूर्य को नियमित जल देना चाहिए । 
3. सूर्य मंत्र  का जप करें।

 कुंडली के लग्न के अनुसार  भाग्योदय :


 कुंडली का प्रथम भाव लग्न होता है। 


मेष लग्न : भाग्योदय 16 वर्ष की आयु, 22 वर्ष की आयु, 28 वर्ष की आयु, 32 वर्ष की आयु, और 36 वर्ष की आयु।

वृष लग्न :  भाग्योदय 25 वर्ष की आयु, 28 वर्ष की आयु, 36 वर्ष की आयु और 42 वर्ष की आयु ।

मिथुन लग्न : भाग्योदय करने वाली आयु है 22 वर्ष, 32 वर्ष, 35 वर्ष, 36 वर्ष, 42 वर्ष। कर्क लग्न : भाग्योदय 16 वर्ष की आयु, 22 वर्ष की आयु, 24 वर्ष की आयु, 25 वर्ष की आयु, 28 वर्ष की आयु, 32 वर्ष ।

सिंह लग्न: भाग्योदय 16 वर्ष की आयु में, 22 वर्ष की आयु में, 24 वर्ष की आयु में, 26 वर्ष की आयु में, 28 वर्ष की आयु में या 32 वर्ष की आयु में हो सकता है।

कन्या लग्न:  16 वर्ष, 22 वर्ष, 25 वर्ष, 32 वर्ष, 33 वर्ष, 35 वर्ष एवं 36 वर्ष।

तुला लग्न : भाग्य का उदय 24 वर्ष की आयु में हो सकता है। यदि 24 वर्ष की आयु में भाग्योदय न हो तो इसके बाद 25 वर्ष की आयु में, 32 वर्ष की आयु में, 33 वर्ष की आयु में, 35 वर्ष की आयु ।

वृश्चिक लग्न :भाग्योदय 22 वर्ष की आयु में, 24 वर्ष की आयु में, 28 वर्ष की आयु में या 32 वर्ष की आयु ।

धनु लग्न :भाग्योदय 16 वर्ष की आयु में, 22 वर्ष की आयु में या 32 वर्ष की आयु ।

मकर लग्न : भाग्योदय 25 वर्ष की आयु में या 33 वर्ष की आयु में या 35 वर्ष की आयु में या 36 वर्ष की आयु ।

कुंभ लग्न :भाग्योदय 25 वर्ष की आयु में, 28 वर्ष की आयु में, 36 वर्ष की आयु में या 42 वर्ष की आयु ।

मीन लग्न :भाग्योदय 16 वर्ष की आयु में, 22 वर्ष की आयु में, 28 वर्ष की आयु में या 33 वर्ष की आयु ।

नौ ग्रहों को प्रसन्न और भाग्य को मजबूत करने के लिए उपाय  :

 सूर्य:  आदित्यहृदय का पाठ करना चाहिए। माता-पिता की सेवा। सूर्य को अर्द्ध जल में रोली तथा लाल पुष्प डाल कर । सोना-तांबा तथा चीनी, गुड़ का दान करें। सूर्योदय से पूर्व उठें। रविवार का व्रत करें। नमक का परहेज करें।बुजुर्गों का सम्मान करें। 

चंद्र:  भगवान शिव का ‘ऊँ नमः शिवाय’ मंत्र जप करें।  भगवान शंकर को भोग लगाएं। सोमवार का व्रत करें। सफेद वस्त्र का दान करें। पहाड़ों की यात्रा करे। माता के चरण छूकर आशीर्वाद प्राप्त करें। 

मंगल:  श्रीहनुमान भगवान के चमेली का तेल सिंदूर ,शुद्ध घी में चोला चढ़ावें। मंगल स्तोत्र का पाठ करें। इमरती, जलेवी, बूंदी तथा चूरमे का प्रसाद । भाईयों के साथ  ठीक रहै । मंगलवार का व्रत करें। पड़ोसियों, मित्रों तथा साथ में काम करने वालों से अच्छा व्यवहार रखनाचाहिए। 

बुध:  भगवती दुर्गा की पूजा करनी चाहिए।  हरे मूंग भिगोकर पक्षियों को दाना डालें। हरा चारा गायों को खिलावें।  तोतों को पिजरों से स्वतंत्रता दिलावें। नौ वर्ष से छोटी कन्याओं का  आशीर्वाद प्राप्त करें। बुधवार का व्रत रखें। मां भगवती दुर्गा का पूजा करें।  

बृहस्पति:  ब्राह्मणों का  आशीर्वाद प्राप्त करें। चने की दाल का मंदिर में दान करें। केशर का तिलक मस्तकपर लगावें। ज्ञानवर्द्धक पुस्तकों का दान करें।  
शुक्र:  वस्त्र स्वच्छ पहनने चाहिए। पत्नी का सम्मान करना चाहिए। गोमाता की सेवा करना चाहिए। गोशाला में गुड़, हरी चारा, चने की दाल गायों को खिलानाचाहिए।  ब्राह्मण को  खीर खिलाकर दक्षिणा देकर आशीर्वाद प्राप्त करें।  संयम से रहें। व्यवनों से बचें। 

शनि: पीपल  का पूजन करें। इमरती, उड़द की दाल, दही बड़े  बांटें। मजदूरों को तला हुआ सामान देनाचाहिए। शनिवार का व्रत करें। ताऊ, चाचा से अच्छे संबंध बनाना चाहिए। श्री हनुमान चालीसा  तथा सुंदर कांड के पाठ करें। शनिवार को तिल के तेल का दान  करें, दक्षिणा दें। 

राहु: माता सरस्वती का पाठ, पूजन करना । रसोई में  भोजन  करें। शाकाहारी होना चाहिए।  बिजली का सामान इकट्ठा न होने दें।  नानाजी से संबंध ठीक रखें। अश्लील पुस्तकें न पढ़ें। 

केतु:  भगवान श्रीगणेश जी का पूजार्चन । बच्चों को केला खिलाना चाहिए।  कुत्तों को तेल लगाकर रोटी खिलानी चाहिए।  मामाजी का आशीर्वाद प्राप्त करें।  धर्म स्थान पर ध्वजा चढ़ावें।
 https://abotibrahman15.blogspot.com

શ્રાદ્ધ વીસે જાણો ...


  • जानीऐ श्राद्ध के बारे मे


ब्रह्मपुराण के ‘श्राद्ध’ अध्याय में श्राद्ध की निम्न व्याख्या है –

देशे काले च पात्रे च
 श्रद्धया विधिना च यत् ।
पित¸नुद्दिश्य विप्रेभ्यो
 दत्तं श्राद्धमुदाहृतम् ।।

 – ब्रह्मपुराण


अर्थ : देश, काल तथा पात्र (उचित स्थान)के अनुसार, पितरों को उद्देशित कर ब्राह्मणों को श्रद्धा एवं विधियुक्त जो (अन्नादि) दिया जाता है, उसे श्राद्ध कहते हैं ।

अमावास्वादिने प्राप्ते
 गृहद्वारं समाश्रिताः ।
वायुभूताः प्रपश्यन्ति
 श्राद्धं वै पितरो नृणाम् ॥

यावदस्तमयं भानोः
 क्षुत्पिपासासमाकुलाः ।
ततश्‍चास्तंगते भानौ
 निराशादुःखसंयुताः ।

निःश्‍वस्य सुचिरं यान्ति
 गर्हयन्तः स्ववंशजम् ।
जलेनाऽपिचन श्राद्धं
 शाकेनापि करोति यः ॥ 

अमायां पितरस्तस्य 
शापं दत्वा प्रयान्ति च ॥ 

– कूर्मपुराण


अर्थ : (मृत्यु के पश्‍चात) वायुरूप बने पूर्वज, अमावस्या के दिन अपने वंशजों के घर पहुंचकर देखते हैं कि उनके लिए श्राद्ध भोजन परोसा गया है अथवा नहीं । भूख-प्यास से व्याकुल पितर सूर्यास्त तक श्राद्ध भोजन की प्रतीक्षा करते हैं । न मिलने पर, निराश और दुःखी होते हैं तथा आह भरकर अपने वंशजों को चिरकाल दोष देते हैं । ऐसे समय जो पानी अथवा सब्जी भी नहीं परोसता, उसको उसके पूर्वज शाप देकर लौट जाते हैं ।

न सन्ति पितरश्‍चेति 
कृत्वा मनसि वर्तते । 
श्राद्धं न कुरुते यस्तु 
तस्य रक्तं पिबन्ति ते ॥  

– आदित्यपुराण


अर्थ : मृत्यु के पश्‍चात पूर्वजों का अस्तित्व नहीं होता, ऐसा मानकर जो श्राद्ध नहीं करता, उसका रक्त उसके पूर्वज पीते हैं ।

श्राद्ध न करने से प्राप्त दोष


न तत्र वीरा जायन्ते
 नाऽऽरोग्यं न शतायुषः । 
न च श्रेयोऽधिगच्छन्ति
 यत्र श्राद्धं विवर्जितम् ॥ 

– मार्कण्डेयपुराण


अर्थ : जहां श्राद्ध नहीं होता, उसके घर लड़का (वीराः) नहीं जन्मता । (जन्मीं तो केवल लडकियां ही जन्मती हैं ।), उस परिवार के लोग स्वस्थ्य और शतायु नहीं होते तथा उनको आर्थिक समस्याएं उत्पन्न होती हैं अथवा संतुष्टि नहीं प्राप्त होती । 
                     

જાણો સંતાન વીસે......?


सन्तान पुत्र होगा या पुत्री  ?



  • पुत्र या पुत्री योग:-


सूर्य, मंगल, गुरू पुरूष ग्रह हैं। शुक्र, चन्द्र स्त्री ग्रह है। बुध और शनि नपुंसक ग्रह है। संतान योग कारक पुरूष ग्रह होने पर पुत्र तथा स्त्री ग्रह होने पर पुत्री का सुख मिलता है। शनि और बुध योग कारक होकर विषम राशि में हो तो पुत्र व समराशि में हो तो पुत्री प्रदान करते हैं।

  • संतान पक्ष में बाधा के योग:-



  •  यदि 5th हाउस के लाॅर्ड पाप भाव (6,8,12) में हो तो संतान प्राप्ति में बाधा या विलम्ब होता है। 
  •  (6,8,12) के स्वामी का 5th हाउस में बैठना भी संतान प्राप्ति को बाधित करता है। 
  •  यदि 5th हाउस के लाॅर्ड नीच राशि में हो तो भी संतान सुख में बाधा डालता है। 
  •  बृहस्पति यदि (6,8,12) में हो तो संतान पक्ष से जुड़ी समस्याएं उपस्थित होती हैं। 
  •  बृहस्पति है नीच राशि (मकर) में होना भी संतान सुख में कमी करता है।
  • बृहस्पति जब राहु के साथ होने से पीड़ित हो तो भी संतान सुख में बाधा या विलम्ब होता हैं। 
  • 5th हाउस में पापग्रहों का शत्रु राशि में बैठना या 5th हाउस में कोई पापयोग
            बनना भी संतान प्राप्ति में बाधक बनता है।


  • संतान सुख

जन्म कुण्डली में ‘संतान योग’ यदि हो, तभी संतान की प्राप्ति होती है। लेकिन संतान के रूप में पुत्र होगा या पुत्री मिलेगी, इसकी जानकारी भी कुण्डली में उस समय पर मौजूद ग्रह-नक्षत्र बता सकते हैं।


  • पुत्र प्राप्ति के योग

अगर कुण्डली में लग्नेश पंचम में हो तथा उस पर चंद्र की पूर्ण दृष्टि हो तो पुत्र संतान होती है। लग्नेश जब गोचरवश- पंचमेश से योग करे, अपनी उच्च राशि में आए, अपनी स्वराशि में आए तब पुत्र प्राप्ति हो सकती है।

उपरोक्त कथन सिर्फ ज्योतिष पर  आधारित है संतान देना और ना देना, दोनों ही ईश्वर के हाथ है। इंसान तो केवल एक अर्ज कर सकता है, लेकिन भगवान की इच्छा हो तभी उसे संतान सुख प्राप्त होता है। किंतु संतान होगी या नहीं और संतान में क्या मिलेगा, इसके बारे में जाना जरूर जा सकता है !!

                    

મંત્ર ફળ ક્યારે આપે ...?

 https://abotibrahman15.blogspot.com

મંત્ર ફળ ક્યારે આપે ...?

        કાળ ચક્ર ના પ્રભાવે સદીઓથી ભરતવર્ષ સંસાર ના રાષ્ટ્રો ની વચ્ચે પોતાના અનુરૂપ સ્થાને સ્થિત નથી, છતા પણ ભારત  નું ગૌરવ સંપૂર્ણ સંસાર ના ઉન્નત થી ઉન્નત  રાષ્ટ્રો પણ મને છે. 
જેનું મુખ્ય કારણ છે આપણાં એ પ્રાચીનતમ તત્વ દર્શી પૂર્વજો કે જેને અમુલ્ય જ્ઞાન પોતાના તત્વ દર્શન થી પ્રાપ્ત કરેલ છે ,
   એ તત્વ ને સંભાળી આજ પણ ભારત દુનિયા સાથે શાંતિ થી ચાલી રહ્યું છે , જે ભારત નું અમુલ્ય ધન છે .
જેના કારણે વિશ્વનૂ સૌથી સક્તિશાળી ગર્વોતમ મહાન રાષ્ટ્ર પણ ભારત ને માત્ર આદરથી જ નહીં પણ એના રહશ્ય જાણવા માટે પણ ઉત્સુક છે. 
ભારત ના પ્રચિંનતમ ઇતિહાસ ને જાણનાર ને સમાન્યતઃ જાણ હોય કે પ્રાચીનતમ મહર્ષિ ઓએ તત્વ દર્શન ના પ્રથમ પ્રયાસે બ્રહ્માજી  પાસેથી વેદ-વિધ્યા ઉપલબ્ધ કરી હતી. 
જેના કારણે આ લોમ તત્વ અને પરલોક તત્વ બંનેમાં સામંજસ સ્થાપિત કરવામાં સમર્થ હતા. 
એજ રીતે તત્કાલિન મહર્ષિઓના  અમુક વર્ગે ભગવાન વિષ્ણુદેવ ની આરાધના થી ભક્તિ વિધ્યા ની ઉપલબ્ધિ  કરી હતી, અને એમના પાસેથી આત્મતત્વ અને પરમાત્મતત્વ બંન્ને માં સરસ એક્ય ભાવ સ્થાપિત કર્યો હતો, 
 એજ રીતે એક વર્ગે સદાશિવ ને પ્રસન્ન કરી અને મંત્ર વિધ્યાની પ્રાપ્તિ કરી હતી. જે થકી લોકિક જીવન થી લઈ  પરલોકિક જીવન ના મંત્ર સિધ્ધી ના ઉપાય કરી અંતે મૂળ તત્વ નો સાક્ષાત્કાર કરવામાં સમર્થ થયા હતા. 
આ ત્રણે વિધ્યા ભારતની સંસ્કૃતિ ની આધાર શીલા ના રૂપ માં આજ પણ વિધ્યમાન છે, તથા ભારતીયો એ પોત પોતાના સંસ્કાર અનુરૂપ યથા માત્રા એને પ્રાપ્ત કરેલ છે, 
આ ત્રણ વિધ્યામાં મંત્ર વિધ્યા સદેવ રહશ્ય ની વાત રહી છે, અને અત્યારે પણ રહસ્યપૂર્ણ છે. 
 કલિયુગ ના પ્રારમ્ભે પહેલા ---જેમ સંસ્કૃત ના પ્રાચીન ગ્રંથોથી જાણવા મળે કે આ મંત્ર વિધ્યા ની ઉપલ્બ્દિ વિષેસ -વિશેષ અધિકારી વ્યક્તિ ઓજ કરી શકતા હતા.
પણ કલિયુગ માં વેદ વિધ્યા નું મહત્વ ઘટતું ગયું અને એક શ્રેણી વિશિષ્ટ વ્યક્તિઓ સુધી સીમિત થય ગયું. ત્યારે ધર્મ ને ઘણું ખરું નુકશાન થયું. 
આવી સ્થિતિ ના કારણે પરમ દયામય જગત જનની માં પાર્વતી ને ક્ષોભ થયો અને મહાદેવ ને આગ્રહ કર્યો કે લોક કલ્યાણ માટે મંત્ર વિધયાનો ઉપદેશ સર્વ ના માટે સાધારણ રીતે બતાવો,,...
યુગધર્મ અનુસાર એ મંત્ર વિધ્યા ઋષિઓ દ્વારા લોક કલ્યાણ માટે  સર્વ સાધારણ રીતે પ્રકટ કરવામાં આવી , 
અને આજ ઇનો વ્યાપક પ્રચાર છે, પરંતુ દુખની વાત એ છે કે સાધનાની વિશેષ પ્રકિયા નો પહેલા જેવો પ્રચાર રહ્યો નથી.....સર્વે સાધારણ ની સવિધિ આપણાં આચાર્યો એકદમ સરળ રીતે આપતા ગયા કે જલ્દીથી જલ્દી મંત્ર સિધ્ધ થાય અને આજ કારણ છે કે એ મંત્ર સિધ્ધી પ્રકિયા સાવ લુપ્ત થય ગઈ છે. સરળતાના ભાવ ના કારણે વસ્તુતઃ મંત્ર સિધ્ધી ની પ્રક્રિયા નું ઉન્મૂલન કર્યું છે. 
   એના પરિણામ સ્વરૂપ લોકો મંત્રો જાણે છે સરળ નુસ્ખાની જેમ પ્રયોગ પણ કરે છે પણ ફળ કઈ પ્રાપ્ત થતું નથી એક વાત એ પણ છે કે વ્યક્તિ જેટલો વ્યાયામશીલ હસે શરીર એટલું બળવાન બનશે,,,
      અને એજ વાત મંત્ર માં પણ છે કે સાધના માં જેટલો પરિશ્રમ કરવામાં આવે એજ અનુપાત માં સફળતા સિધ્ધી ની પ્રાપ્તિ થાય..પણ લોકો ને અત્યારે શીઘ્રતાથી સિધ્ધી ની લાલસા છે અને સરળ ઉપાય શોધે છે અને કોઈ પરિશ્રમ કરવા માંગતુ નથી , બધા જાણે છે કે પ્રાચીન સમય માં આપના પૂર્વજો ઋષિઓ આ મંત્ર સાધના માટે કેટલા પરિશ્રમ કરતાં. ત્યારે એને સફળતાની પ્રાપ્તિ થતી.
     આ બધુ જાણવા છતાં અત્યારે લોકો એવા ગુરુઓ ને શોધવા નિકડે છે કે ચપટી વગાડી ને સિધ્ધી આપવી  દે, જે ખુબજ મોટી ભૂલ છે, શાસ્ત્રના માર્ગ ને છોડી ને ક્યારેય પણ મંત્ર ની વાસ્તવિક સિધ્ધી થઈ જ ના સકે, 
આજ આપણે એજ ઉપાય ની ચર્ચા કરશું,    શાસ્ત્ર માં વર્ણીત છે પ્રતિપાદિત કરેલ છે અને એનું અનુસરણ કરીને કોઈ પણ વ્યક્તિ મંત્ર સાધનામાં સફળતા પ્રાપ્ત કરી સકે, ....
   
 પુરાણ જ્ઞાન

મંત્ર  કેવી રીતે પ્રાપ્ત કરવો 
મંત્ર દ્વારા ઈસ્ટ દેવ ની ઉપાસન એજ મંત્ર વિધ્યા છે,  એ મંત્ર ગુરુદેવ પાસેથી પ્રાપ્ત થાય છે, પ્રારંભ માં ભગવાન શિવ પાસેથી આપના પૂર્વજો એ  મંત્ર વિધ્યા પ્રાપ્ત કરી હતી, અને એજ પરંપરાગત પ્રાપ્ત થતી આવે છે...  
આજ પણ મંત્ર શાસ્ત્રીઓ પાસે આ મંત્ર વિધિ ક્રમ થી પ્રાપ્ત કરેલ છે, અને એથીજ ભવિષ્ય માં પ્રાપ્ત કરવામાં આવસે, એજ ક્રમ છે. 
 અત: મંત્ર સાધકે પોતાન ઈસ્ટ દેવના ખાસ વિશિષ્ટ સાધક પાસેથી જ મંત્ર પ્રાપ્ત કરવો જોઇયે ...
જેણે ગુરુ પાસેથી સવિધિ મંત્ર વિધિ પ્રાપ્ત કરેલ છે તથા જેના પૂર્ણાભિષેક સુધી ના સંસ્કારો પૂર્ણ થઈ ચૂકેલા છે એજ મંત્ર દેવાનો અધિકારી છે, પરંતુ અત્યારે પરિસ્થિતી ખરાબ છે, કેટલાક લોકો પુસ્તક માથી જોય અને મંત્ર સાધના કરે છે,, કેટલાક એવા પણ છે જે અધિકારી ગુરુ પાસે થી મંત્ર પ્રાપ્ત કર્યા વગર બીજાને મંત્ર દિક્ષા આપે છે,. 
   એવા પણ ગુરુઑ છે જે માત્ર દિક્ષિત જ છે અર્થાત ગુરુ પાસેથી મંત્ર નો ઉપદેશ માત્ર પ્રાપ્ત કરેલ છે અને મંત્ર દાતા બની ગયા છે.. 
આ બધા અનધિકારી છે અને આ લોકો દ્વારા કરવાં આવેલી માંત્રિક સાધના ફળ પ્રદ હોતી નથી...
 માટે જ કહવાયું છે કે શ્રેષ્ઠ ગુરુ ને શોધીને દિક્ષા લેવી જોયે, ગુરુ બનાવવા જોઈએ ,
જે વ્યક્તિ એ શાસ્ત્ર વિધિ થી મંત્ર દીક્ષા લીધી હોય તથા પૂર્ણ સાધન કર્યું હોય અને એક પછી એક કરી પૂર્ણભિષેક સુધી ના સંસ્કાર કરેલા હોય એવાજ  શ્રેષ્ઠ વ્યક્તિ પાસેથી જ મંત્ર દિક્ષા લેવી જોઈએ ....
 પુરાણ gyan
મંત્ર પ્રાપ્તિ માં સમજવા જેવુ 
મંત્ર પ્રાપ્તિ માં જેવુ સમજવામાં આવે છે એવા અભાવ નથી, જે કોઈ પણ ચાહે શ્રેષ્ઠ ગુરુ પાસેથી મંત્ર દિક્ષા પ્રાપ્તિ કરી શકે છે, અભાવ હોય તો માત્ર શિષ્ય નો,  આજ ના શિષ્યો મંત્ર દિક્ષા લેવા માંગે છે પણ સાધહના કરવાનો પરિશ્રમ કરવા નથી માંગતા , માટે જ લાલસાના  કારણે એવાજ ગુરુઓની  શોધ કરે કે જે જલ્દીથી મંત્ર આપી દે છે, અને શિષ્ય બનાવી લે છે, અને દુખ અને કષ્ટો માથી રક્ષા માટે ના વચનો આપી દે છે. આવા ભાવુક શિષ્યો માટે રુચિ અનુશાર જગ્યા જગ્યા પર મંત્ર આપવા વાળા ગુરુઑ બેઠા છે, પણ આ પ્રણાલી મંત્ર શાસ્ત્ર અનુમોદિત નથી ,,, અને શાસ્ત્ર વિધિ ની ઉપેક્ષા કરવી લાભપ્રદ નથી હોતી. 
અને આજ કારણે આવા ગુરુ અને શિષ્યો થકી મંત્ર વિધ્યા નો ઉપહાસ થાય છે, 
    પણ મંત્ર વિધ્યા નો જે મહત્વ છે એ આ પ્રકાર ની નિંદા -વાદ ઘાટ થી ઘટી ના શકે. 
એના જ્ઞાન ને પ્રાપ્ત કરવા માટે શ્રધ્ધા અને વિશ્વાશ ની જરૂર હોય છે, અને એનાથી વધારે જરૂરી હોય છે સદગુરુ પાસેથી સવિધિ મંત્ર વિધ્યા પ્રાપ્ત કરવાની ..... અને એ વ્યવસ્થા શાસ્ત્ર ના જાણકારો આચાર્યો જાણે છે...

   કાન ફૂકવો એ દિક્ષા આપી ના કહેવાય 

મંત્ર વિધિ ની વિસ્તૃત વિધિ છે જેના થકી મંત્ર પ્રાપ્ત કરી મંત્ર સાધના માં સફળતા પ્રાપ્ત થાય છે અન્યથા નહીં.
 જેમ  સદગુરુ પાસેથી સવિધિ મંત્ર લેવો જોઈએ એજ રીતે ક્યાં દિવસે ગુરુ પાસેથી મંત્ર લેવો જોય અને ક્યાં સમયે લેવો જોઈએ એ બધુ પણ જરૂરી છે .....

દિક્ષા ક્યારે લેવી જોઈએ ....?

દિક્ષા લેવાના મુહૂર્ત હોય છે જે નીચે પ્રમાણે થી જોય સકાય ....
દિક્ષા માટે ચૈત્ર અને મલમાસ (અધિકમાસ)  વર્જિત છે. એ સિવાય ના માસ માં શુક્લ કે ક્રુષ્ણ પક્ષમાં દિક્ષા લઈ શકાય પણ શુક્લ પક્ષ શ્રેષ્ઠ ગણાય ....એજ પ્રકારે તિથિઓમાં દ્વિતીયા, તૃતીયા, પંચમી, સપ્તમી, દશમી,એકાદશી, દ્વાદસી, અને પુર્ણિમા તિથી માં લઈ શકાય...
તથા શનિવાર અને મંગલવાર શિવાય ના વાર માં લેવી ... 
નક્ષત્રો માં અશ્વિની, રોહિણી, મૃગશિરા, પુનર્વસુ, પુષ્ય, મઘા, પૂર્વા ફાલ્ગુની થી સ્વાતિ સુધી અને અનુરાધા, મૂળ, પૂર્વા-ઉત્તરા ષાઢા,  શતભિશા, પૂર્વા-ઉત્તરાભાદ્રપદા, અને રેવતી નક્ષત્રો માં દિક્ષા લેવી ઉત્તમ છે... 
એજ પ્રકારે વૃષભ,સિંહ, કન્યા, ધન, અને મીન આ લગ્ન માં દિક્ષા લેવી. 
આ પ્રકારે ઉપર્યુક્ત મુહૂર્ત માં ગુરુ દેવ પાસે થી મંત્ર દિક્ષા લેવી જોઈએ ..
આમ કરવાથી મંત્ર ના સિધ્ધ થવામાં સાધક ને સુવિધા થાય અને મંત્ર સિધ્ધ થવો કોય પણ સાધક માટે પરમ આવશ્યક છે,..
અસ્તુ .. 
જો આપણે આ પોસ્ટ ગમી હોય તો અન્ય મિત્રો અને પરિવાર સાથે સેર કરો .....

કર્મ ફળ

          
 પુરાણ જ્ઞાન

  ॐ卐 कर्म - भोग ॐ卐

==>      पूर्व जन्मों के कर्मों से ही हमें इस जन्म में माता - पिता , भाई - बहन ,
    पति - पत्नि , प्रेमी - प्रेमिका , मित्र - शत्रु , सगे - सम्बन्धी इत्यादि संसार के जितने भी रिश्ते नाते हैं ,
सब मिलते हैं । क्योंकि इन सबको हमें या तो कुछ देना होता है या इनसे कुछ लेना होता है ।
    

                      ==> सन्तान के रुप में कौन आता है ?


==> • वेसे ही सन्तान के रुप में हमारा कोई पूर्वजन्म का 'सम्बन्धी' ही आकर जन्म लेता है । 
   जिसे शास्त्रों में चार प्रकार से बताया गया है --
==>1.   *ऋणानुबन्ध  :-* पूर्व जन्म का कोई ऐसा जीव जिससे आपने ऋण लिया हो या उसका 
किसी भी प्रकार से धन नष्ट किया हो , वह आपके घर में सन्तान बनकर जन्म लेगा और आपका 
धन बीमारी में या व्यर्थ के कार्यों में तब तक नष्ट करेगा , जब तक उसका हिसाब पूरा ना हो जाये ।

==>2. •  *शत्रु पुत्र  :-* पूर्व जन्म का कोई दुश्मन आपसे बदला लेने के लिये आपके घर में सन्तान
      बनकर आयेगा और बड़ा होने पर माता - पिता से मारपीट , झगड़ा या उन्हें सारी जिन्दगी किसी 
       भी प्रकार से सताता ही रहेगा , हमेशा कड़वा बोलकर उनकी बेइज्जती करेगा व उन्हें दुःखी रखकर खुश होगा ।

==>3.  *उदासीन पुत्र  :-* इस प्रकार की सन्तान ना तो माता - पिता की सेवा करती है और ना
    ही कोई सुख देती है । बस , उनको उनके हाल पर मरने के लिए छोड़ देती है । विवाह होने 
      पर यह माता - पिता से अलग हो जाते हैं ।

==>4. • *सेवक पुत्र  :-* पूर्व जन्म में यदि आपने किसी की खूब सेवा की है तो वह अपनी की हुई सेवा का ऋण उतारने के लिए आपका पुत्र या पुत्री बनकर आता है और आपकी सेवा करता है । जो  बोया है , वही तो काटोगे । अपने माँ - बाप की सेवा की है तो ही आपकी औलाद बुढ़ापे में आपकी सेवा करेगी , वर्ना कोई पानी पिलाने वाला भी पास नहीं होगा ।

>>>• आप यह ना समझें कि यह सब बातें केवल मनुष्य पर ही लागू होती हैं । इन चार प्रकार में कोई सा भी जीव आ सकता है । जैसे आपने किसी गाय कि निःस्वार्थ भाव से सेवा की है तो वह भी पुत्र या पुत्री बनकर आ सकती है । यदि आपने गाय को स्वार्थ वश पालकर उसको दूध देना बन्द करने के पश्चात घर से निकाल दिया तो वह ऋणानुबन्ध पुत्र या पुत्री बनकर जन्म लेगी । यदि आपने किसी निरपराध जीव को सताया है तो वह आपके जीवन में शत्रु बनकर आयेगा और आपसे बदला लेगा ।

>>>• इसलिये जीवन में कभी किसी का बुरा ना करें । क्योंकि प्रकृति का नियम है कि आप जो भी करोगे , उसे वह आपको इस जन्म में या अगले जन्म में सौ गुना वापिस करके देगी । यदि आपने किसी को एक रुपया दिया है तो समझो आपके खाते में सौ रुपये जमा हो गये हैं । यदि आपने किसी का एक रुपया छीना है तो समझो आपकी जमा राशि से सौ रुपये निकल गये ।

>>>• ज़रा सोचिये , "आप कौन सा धन साथ लेकर आये थे और कितना साथ लेकर जाओगे ? जो चले गये , वो कितना सोना - चाँदी साथ ले गये ? मरने पर जो सोना - चाँदी , धन - दौलत बैंक में पड़ा रह गया , समझो वो व्यर्थ ही कमाया । औलाद अगर अच्छी और लायक है तो उसके लिए कुछ भी छोड़कर जाने की जरुरत नहीं है , खुद ही खा - कमा लेगी और औलाद अगर बिगड़ी या नालायक है तो उसके लिए जितना मर्ज़ी धन छोड़कर जाओ , वह चंद दिनों में सब बरबाद करके ही चैन लेगी ।"

>>>•  मैं , मेरा , तेरा और सारा धन यहीं का यहीं धरा रह जायेगा , कुछ भी साथ नहीं जायेगा । साथ यदि कुछ जायेगा भी तो सिर्फ *नेकियाँ* ही साथ जायेंगी । इसलिए जितना हो सके *नेकी* करो *सतकर्म* करो ।

નીલ સરસ્વતી સ્તોત્ર


નીલ સરસ્વતી સ્તોત્ર


                श्री गणेशाय नमः
 ॐ घोररूपे महारावे सर्वशत्रु भयङ्करी ।
       भक्तेभ्यो वरदे देवि त्राहि मां शरणागतम् ।।१।।

 ॐ सुरासुरार्चिते देवि सिद्ध गन्धर्व सेविते ।
          जाड्यपापहरे देवि त्राहि मां शरणागतम् ॥२॥

 ॐ जटाजूट समायुक्ते लोलजिह्वान्तकारिणी ।
           द्रुतबुद्धिकरे देवि त्राहि मां शरणागतम् ।।३।।

 ॐ सौम्यक्रोधधरे रुपे चण्डरूपे नमोऽस्तु ते ।
        सृष्टिरूपे नमस्तुभ्यं त्राहि मां शरणागतम् ॥४॥

ॐ जडानां जडतां हन्ति भक्तानां भक्तवत्सला ।
          मूढतां हर मे देवि त्राहि मां शरणागतम् ||||

ॐ हूं हूंकारमये देवि बलिहोमप्रिये नमः ।
         उग्रतारे नमो नित्यं त्राहि मां शरणागतम् ||||

ॐ बुद्धिं देहि यशो देहि कवित्वं देहि देवि मे ।
          मूढत्वं च हरेर्देवि त्राहि मां शरणागतम् ||||

इन्द्रादिविलसन्देववन्दिते करुणामयी।
       तारे तारधिनाथास्थे त्राहि मां शरणागतम् ॥ ८॥

                   ||अथ फलश्रुतिः ॥

ॐ अष्टम्यां च चतुर्दश्यां नवम्यां च पठेन्नरः ।
            षण्मासैः सिद्धिमाप्नोति नात्र कार्या विचारणा ॥१॥

ॐ मोक्षार्थी लभते मोक्षं धनार्थी लभते धनम् ।
         विध्यार्थी लभते विद्यां तर्कव्याकरणादिकाम् ॥२॥

ॐ इदं स्तोत्रं पठेद्यस्तु सततं श्रद्धयान्वितः ।
         तस्य शत्रुः क्षयं याति महाप्रज्ञा प्रजायते ||||

पीडायां यापि सङ्ग्रामे जाड्ये दाने तथा भये ।
           य इदं पठति स्तोत्रं शुभं तस्य न संशयः .।।4।।
          इति प्रणम्य स्तुत्वा च योनिमुद्रां प्रदर्शयेत् ।
        ॥इति श्री नील सरस्वती स्तोत्रं सम्पूर्णम् ॥


શ્રી વેદસાર શિવ સ્તવ


॥ अथ वेदसारशिवस्तोत्रम्॥

पशूनां पतिं पापनाशं परेशं गजेन्द्रस्य कृत्तिं वसानं वरेण्यम् । जटाजूटमध्ये स्फुरद्गाङ्गवारिं महादेवमेकं स्मरामि स्मरारिम् ॥ १॥
महेशं सुरेशं सुरारातिनाशं
     विभुं विश्वनाथं विभूत्यङ्गभूषम् ।
विरूपाक्षमिन्द्वर्कवह्नित्रिनेत्रं
     सदानन्दमीडे प्रभुं पञ्चवक्त्रम् ॥ २॥


गिरीशं गणेशं गले नीलवर्णं
     गवेन्द्राधिरूढं गुणातीतरूपम् ।
भवं भास्वरं भस्मना भूषिताङ्गं
     भवानीकलत्रं भजे पञ्चवक्त्रम् ॥ ३॥


शिवाकान्त शंभो शशाङ्कार्धमौले
     महेशान शूलिञ्जटाजूटधारिन् ।
त्वमेको जगद्व्यापको विश्वरूपः
     प्रसीद प्रसीद प्रभो पूर्णरूप ॥ ४॥

परात्मानमेकं जगद्बीजमाद्यं
     निरीहं निराकारमोंकारवेद्यम् ।
यतो जायते पाल्यते येन विश्वं
     तमीशं भजे लीयते यत्र विश्वम् ॥ ५॥

न भूमिर्नं चापो न वह्निर्न वायु-
     र्न चाकाशमास्ते न तन्द्रा न निद्रा ।
न चोष्णं न शीतं न देशो न वेषो
     न यस्यास्ति मूर्तिस्त्रिमूर्तिं तमीडे ॥ ६॥

अजं शाश्वतं कारणं कारणानां
     शिवं केवलं भासकं भासकानाम् ।
तुरीयं तमःपारमाद्यन्तहीनं
     प्रपद्ये परं पावनं द्वैतहीनम् ॥ ७॥

नमस्ते नमस्ते विभो विश्वमूर्ते
     नमस्ते नमस्ते चिदानन्दमूर्ते ।
नमस्ते नमस्ते तपोयोगगम्य
     नमस्ते नमस्ते श्रुतिज्ञानगम्य ॥ ८॥

प्रभो शूलपाणे विभो विश्वनाथ
     महादेव शंभो महेश त्रिनेत्र ।
शिवाकान्त शान्त स्मरारे पुरारे
     त्वदन्यो वरेण्यो न मान्यो न गण्यः ॥ ९॥

शंभो महेश करुणामय शूलपाणे
     गौरीपते पशुपते पशुपाशनाशिन् ।
काशीपते करुणया जगदेतदेक-
     स्त्वंहंसि पासि विदधासि महेश्वरोऽसि ॥ १०॥

त्वत्तो जगद्भवति देव भव स्मरारे
     त्वय्येव तिष्ठति जगन्मृड विश्वनाथ ।
त्वय्येव गच्छति लयं जगदेतदीश
     लिङ्गात्मके हर चराचरविश्वरूपिन् ॥ ११॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
वेदसारशिवस्तोत्रं संपूर्णम् ।

શ્રી શિવ મહિમ્ન સ્તોત્ર

 ॥ अथ श्री शिवमहिम्नस्तोत्रम् ॥

महिम्नः पारं ते परमविदुषो यद्यसदृशी
स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः ।
अथाऽवाच्यः सर्वः स्वमतिपरिणामावधि गृणन्
ममाप्येष स्तोत्रे हर निरपवादः परिकरः ॥ १॥

अतीतः पंथानं तव च महिमा वाङ्मनसयोः
अतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि ।
स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः
पदे त्वर्वाचीने पतति न मनः कस्य न वचः ॥ २॥

मधुस्फीता वाचः परमममृतं निर्मितवतः
तव ब्रह्मन् किं वागपि सुरगुरोर्विस्मयपदम् ।
मम त्वेतां वाणीं गुणकथनपुण्येन भवतः
पुनामीत्यर्थेऽस्मिन् पुरमथन बुद्धिर्व्यवसिता ॥ ३॥

तवैश्वर्यं यत्तज्जगदुदयरक्षाप्रलयकृत्
त्रयीवस्तु व्यस्तं तिस्रुषु गुणभिन्नासु तनुषु ।
अभव्यानामस्मिन् वरद रमणीयामरमणीं
विहन्तुं व्याक्रोशीं विदधत इहैके जडधियः ॥ ४॥

किमीहः किंकायः स खलु किमुपायस्त्रिभुवनं
किमाधारो धाता सृजति किमुपादान इति च ।
अतर्क्यैश्वर्ये त्वय्यनवसर दुःस्थो हतधियः
कुतर्कोऽयं कांश्चित् मुखरयति मोहाय जगतः ॥ ५॥

अजन्मानो लोकाः किमवयववन्तोऽपि जगतां
अधिष्ठातारं किं भवविधिरनादृत्य भवति ।
अनीशो वा कुर्याद् भुवनजनने कः परिकरो
यतो मन्दास्त्वां प्रत्यमरवर संशेरत इमे ॥ ६॥

त्रयी साङ्ख्यं योगः पशुपतिमतं वैष्णवमिति
प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च ।
रुचीनां वैचित्र्यादृजुकुटिल नानापथजुषां
नृणामेको गम्यस्त्वमसि पयसामर्णव इव ॥ ७॥

महोक्षः खट्वाङ्गं परशुरजिनं भस्म फणिनः
कपालं चेतीयत्तव वरद तन्त्रोपकरणम् ।
सुरास्तां तामृद्धिं दधति तु भवद्भूप्रणिहितां
न हि स्वात्मारामं विषयमृगतृष्णा भ्रमयति ॥ ८॥

ध्रुवं कश्चित् सर्वं सकलमपरस्त्वध्रुवमिदं
परो ध्रौव्याऽध्रौव्ये जगति गदति व्यस्तविषये ।
समस्तेऽप्येतस्मिन् पुरमथन तैर्विस्मित इव
स्तुवन् जिह्रेमि त्वां न खलु ननु धृष्टा मुखरता ॥ ९॥

तवैश्वर्यं यत्नाद् यदुपरि विरिञ्चिर्हरिरधः
परिच्छेतुं यातावनिलमनलस्कन्धवपुषः ।
ततो भक्तिश्रद्धा-भरगुरु-गृणद्भ्यां गिरिश यत्
स्वयं तस्थे ताभ्यां तव किमनुवृत्तिर्न फलति ॥ १०॥
अयत्नादासाद्य त्रिभुवनमवैरव्यतिकरं दशास्यो यद्बाहूनभृत-रणकण्डू-परवशान् । शिरःपद्मश्रेणी-रचितचरणाम्भोरुह-बलेः स्थिरायास्त्वद्भक्तेस्त्रिपुरहर विस्फूर्जितमिदम् ॥ ११॥ अमुष्य त्वत्सेवा-समधिगतसारं भुजवनं बलात् कैलासेऽपि त्वदधिवसतौ विक्रमयतः । अलभ्यापातालेऽप्यलसचलितांगुष्ठशिरसि प्रतिष्ठा त्वय्यासीद् ध्रुवमुपचितो मुह्यति खलः ॥ १२॥ यदृद्धिं सुत्राम्णो वरद परमोच्चैरपि सतीं अधश्चक्रे बाणः परिजनविधेयत्रिभुवनः । न तच्चित्रं तस्मिन् वरिवसितरि त्वच्चरणयोः न कस्याप्युन्नत्यै भवति शिरसस्त्वय्यवनतिः ॥ १३॥ अकाण्ड-ब्रह्माण्ड-क्षयचकित-देवासुरकृपा विधेयस्याऽऽसीद् यस्त्रिनयन विषं संहृतवतः । स कल्माषः कण्ठे तव न कुरुते न श्रियमहो विकारोऽपि श्लाघ्यो भुवन-भय- भङ्ग- व्यसनिनः ॥ १४॥ असिद्धार्था नैव क्वचिदपि सदेवासुरनरे निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः । स पश्यन्नीश त्वामितरसुरसाधारणमभूत् स्मरः स्मर्तव्यात्मा न हि वशिषु पथ्यः परिभवः ॥ १५॥ मही पादाघाताद् व्रजति सहसा संशयपदं पदं विष्णोर्भ्राम्यद् भुज-परिघ-रुग्ण-ग्रह- गणम् । मुहुर्द्यौर्दौस्थ्यं यात्यनिभृत-जटा-ताडित-तटा जगद्रक्षायै त्वं नटसि ननु वामैव विभुता ॥ १६॥ वियद्व्यापी तारा-गण-गुणित-फेनोद्गम-रुचिः प्रवाहो वारां यः पृषतलघुदृष्टः शिरसि ते । जगद्द्वीपाकारं जलधिवलयं तेन कृतमिति अनेनैवोन्नेयं धृतमहिम दिव्यं तव वपुः ॥ १७॥ रथः क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो रथाङ्गे चन्द्रार्कौ रथ-चरण-पाणिः शर इति । दिधक्षोस्ते कोऽयं त्रिपुरतृणमाडम्बर विधिः विधेयैः क्रीडन्त्यो न खलु परतन्त्राः प्रभुधियः ॥ १८॥ हरिस्ते साहस्रं कमल बलिमाधाय पदयोः यदेकोने तस्मिन् निजमुदहरन्नेत्रकमलम् । गतो भक्त्युद्रेकः परिणतिमसौ चक्रवपुषः त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम् ॥ १९॥ क्रतौ सुप्ते जाग्रत् त्वमसि फलयोगे क्रतुमतां क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते । अतस्त्वां सम्प्रेक्ष्य क्रतुषु फलदान-प्रतिभुवं श्रुतौ श्रद्धां बध्वा दृढपरिकरः कर्मसु जनः ॥ २०॥
क्रियादक्षो दक्षः क्रतुपतिरधीशस्तनुभृतां ऋषीणामार्त्विज्यं शरणद सदस्याः सुर-गणाः । क्रतुभ्रंशस्त्वत्तः क्रतुफल-विधान-व्यसनिनः ध्रुवं कर्तुं श्रद्धा विधुरमभिचाराय हि मखाः ॥ २१॥ प्रजानाथं नाथ प्रसभमभिकं स्वां दुहितरं गतं रोहिद् भूतां रिरमयिषुमृष्यस्य वपुषा । धनुष्पाणेर्यातं दिवमपि सपत्राकृतममुं त्रसन्तं तेऽद्यापि त्यजति न मृगव्याधरभसः ॥ २२॥ स्वलावण्याशंसा धृतधनुषमह्नाय तृणवत् पुरः प्लुष्टं दृष्ट्वा पुरमथन पुष्पायुधमपि । यदि स्त्रैणं देवी यमनिरत-देहार्ध-घटनात् अवैति त्वामद्धा बत वरद मुग्धा युवतयः ॥ २३॥ श्मशानेष्वाक्रीडा स्मरहर पिशाचाः सहचराः चिता-भस्मालेपः स्रगपि नृकरोटी-परिकरः । अमङ्गल्यं शीलं तव भवतु नामैवमखिलं तथापि स्मर्तॄणां वरद परमं मङ्गलमसि ॥ २४॥ मनः प्रत्यक् चित्ते सविधमविधायात्त-मरुतः प्रहृष्यद्रोमाणः प्रमद-सलिलोत्सङ्गति-दृशः । यदालोक्याह्लादं ह्रद इव निमज्यामृतमये दधत्यन्तस्तत्त्वं किमपि यमिनस्तत् किल भवान् ॥ २५॥ त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवहः त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च । परिच्छिन्नामेवं त्वयि परिणता बिभ्रति गिरं न विद्मस्तत्तत्त्वं वयमिह तु यत् त्वं न भवसि ॥ २६॥ त्रयीं तिस्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरान् अकाराद्यैर्वर्णैस्त्रिभिरभिदधत् तीर्णविकृति । तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभिः समस्त-व्यस्तं त्वां शरणद गृणात्योमिति पदम् ॥ २७॥ भवः शर्वो रुद्रः पशुपतिरथोग्रः सहमहान् तथा भीमेशानाविति यदभिधानाष्टकमिदम् । अमुष्मिन् प्रत्येकं प्रविचरति देव श्रुतिरपि प्रियायास्मैधाम्ने प्रणिहित-नमस्योऽस्मि भवते ॥ २८॥ नमो नेदिष्ठाय प्रियदव दविष्ठाय च नमः नमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः । नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमः नमः सर्वस्मै ते तदिदमतिसर्वाय च नमः ॥ २९॥ बहुल-रजसे विश्वोत्पत्तौ भवाय नमो नमः प्रबल-तमसे तत् संहारे हराय नमो नमः । जन-सुखकृते सत्त्वोद्रिक्तौ मृडाय नमो नमः प्रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नमः ॥ ३०॥
कृश-परिणति-चेतः क्लेशवश्यं क्व चेदं क्व च तव गुण-सीमोल्लङ्घिनी शश्वदृद्धिः । इति चकितममन्दीकृत्य मां भक्तिराधाद् वरद चरणयोस्ते वाक्य-पुष्पोपहारम् ॥ ३१॥ असित-गिरि-समं स्यात् कज्जलं सिन्धु-पात्रे सुर-तरुवर-शाखा लेखनी पत्रमुर्वी । लिखति यदि गृहीत्वा शारदा सर्वकालं तदपि तव गुणानामीश पारं न याति ॥ ३२॥ असुर-सुर-मुनीन्द्रैरर्चितस्येन्दु-मौलेः ग्रथित-गुणमहिम्नो निर्गुणस्येश्वरस्य । सकल-गण-वरिष्ठः पुष्पदन्ताभिधानः रुचिरमलघुवृत्तैः स्तोत्रमेतच्चकार ॥ ३३॥ अहरहरनवद्यं धूर्जटेः स्तोत्रमेतत् पठति परमभक्त्या शुद्ध-चित्तः पुमान् यः । स भवति शिवलोके रुद्रतुल्यस्तथाऽत्र प्रचुरतर-धनायुः पुत्रवान् कीर्तिमांश्च ॥ ३४॥ महेशान्नापरो देवो महिम्नो नापरा स्तुतिः । अघोरान्नापरो मन्त्रो नास्ति तत्त्वं गुरोः परम् ॥ ३५॥ दीक्षा दानं तपस्तीर्थं ज्ञानं यागादिकाः क्रियाः । महिम्नस्तव पाठस्य कलां नार्हन्ति षोडशीम् ॥ ३६॥ कुसुमदशन-नामा सर्व-गन्धर्व-राजः शशिधरवर-मौलेर्देवदेवस्य दासः । स खलु निज-महिम्नो भ्रष्ट एवास्य रोषात् स्तवनमिदमकार्षीद् दिव्य-दिव्यं महिम्नः ॥ ३७॥ सुरगुरुमभिपूज्य स्वर्ग-मोक्षैक-हेतुं पठति यदि मनुष्यः प्राञ्जलिर्नान्य-चेताः । व्रजति शिव-समीपं किन्नरैः स्तूयमानः स्तवनमिदममोघं पुष्पदन्तप्रणीतम् ॥ ३८॥ आसमाप्तमिदं स्तोत्रं पुण्यं गन्धर्व-भाषितम् । अनौपम्यं मनोहारि सर्वमीश्वरवर्णनम् ॥ ३९॥ इत्येषा वाङ्मयी पूजा श्रीमच्छङ्कर-पादयोः । अर्पिता तेन देवेशः प्रीयतां मे सदाशिवः ॥ ४०॥ तव तत्त्वं न जानामि कीदृशोऽसि महेश्वर । यादृशोऽसि महादेव तादृशाय नमो नमः ॥ ४१॥ एककालं द्विकालं वा त्रिकालं यः पठेन्नरः । सर्वपाप-विनिर्मुक्तः शिव लोके महीयते ॥ ४२॥
श्री पुष्पदन्त-मुख-पङ्कज-निर्गतेन स्तोत्रेण किल्बिष-हरेण हर-प्रियेण । कण्ठस्थितेन पठितेन समाहितेन सुप्रीणितो भवति भूतपतिर्महेशः ॥ ४३॥ ॥ इति श्री पुष्पदन्त विरचितं शिवमहिम्नः स्तोत्रं समाप्तम् ॥

સુર્ય સ્તોત્ર


॥ सूर्यस्तोत्रम् १ ॥

अथ सूर्यस्तोत्रप्रारम्भः ।
अस्य श्रीभगवत्सूर्यस्तोत्रमहामन्त्रस्य अगस्त्य ऋषिः । अनुष्टुप्छन्दः ।
श्रीसूर्यनारायणो देवता । सूं बीजम् ।
आदित्याय अङ्गुष्ठाभ्यां नमः । अर्कायतर्जनीभ्यां नमः ।
रिं शक्तिः । यं कीलकम् । सूर्यप्रसादसिद्ध्यर्थे जपे विनियोगः ।
सहस्रकिरणाय कनिष्ठिकाभ्यां नमः । मार्ताण्डाय करतलकरपृष्ठाभ्यां नमः।
दिवाकराय मध्यमाभ्यां नमः । प्रभाकराय अनामिकाभ्यां नमः । आदित्याय हृदयाय नमः । अर्काय शिरसे स्वाहा ।
भूर्भुवः सुवरोमिति दिग्बन्धः ॥
दिवाकराय शिखायै वषट् । प्रभाकराय कवचाय हुम् । सहस्रकिरणाय नेत्रत्रयाय वौषट् । मार्ताण्डाय अस्त्राय फट् । ध्यानम् ।
भक्ताभीष्टवरप्रदं दिनमणिं मार्ताण्डमाद्यं शुभम् ॥ १ ॥
ध्यायेत् सूर्यमनन्तशक्तिकिरणं तेजोमयं भास्वरं भक्तानामभयप्रदं दिनकरं ज्योतिर्मयं शङ्करम् । आदित्यं जगदीशमच्युतमजं त्रैलोक्यचूडामणिं
जन्ममृत्युजराव्याधिसंसारभयनाशनः ॥ ३॥
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः । पञ्चब्रह्ममयाकाराः येन जाता नमामि तम् ॥ २ ॥ कालात्मा सर्वभूतात्मा वेदात्मा विश्वतोमुखः । ब्रह्मस्वरूप उदये मध्याह्ने तु सदाशिवः ।
अण्डयोने कर्मसाक्षिन्नादित्याय नमो नमः ॥ ६॥
अस्तकाले स्वयं विष्णुस्त्रयीमूर्तिर्दिवाकरः ॥ ४॥ एकचक्रो रथो यस्य दिव्यः कनकभूषितः । सोऽयं भवतु नः प्रीतः पद्महस्तो दिवाकरः ॥ ५॥ पद्महस्तः परञ्ज्योतिः परेशाय नमो नमः । कमलासन देवेश कर्मसाक्षिन्नमो नमः ।
सर्वसम्पत्करं चैव सर्वाभीष्टप्रदायकम् ॥ १०॥
धर्ममूर्ते दयामूर्ते तत्त्वमूर्ते नमो नमः ॥ ७॥ सकलेशाय सूर्याय सर्वज्ञाय नमो नमः । क्षयापस्मारगुल्मादिव्याधिहन्त्रे नमो नमः ॥ ८॥ सर्वज्वरहरं चैव सर्वरोगनिवारणम् । स्तोत्रमेतच्छिवप्रोक्तं सर्वसिद्धिकरं परम् ॥ ९॥
इति सूर्यस्तोत्रं सम्पूर्णम् ।

Featured Post

राघवाष्टकम्

  *जय द्वारकाधीश* *॥ राघवाष्टकम् ॥*  राघवं करुणाकरं मुनि-सेवितं सुर-वन्दितं जानकीवदनारविन्द-दिवाकरं गुणभाजनम् ।  वालिसूनु-हितैषिणं हनुमत्प्र...