Divyesh Joshi

પુરાણ જ્ઞાન : સરસ્વતી સ્તુતિ
લેબલ સરસ્વતી સ્તુતિ સાથે પોસ્ટ્સ બતાવી રહ્યું છે. બધી પોસ્ટ્સ બતાવો
લેબલ સરસ્વતી સ્તુતિ સાથે પોસ્ટ્સ બતાવી રહ્યું છે. બધી પોસ્ટ્સ બતાવો

નીલ સરસ્વતી સ્તોત્ર


નીલ સરસ્વતી સ્તોત્ર


                श्री गणेशाय नमः
 ॐ घोररूपे महारावे सर्वशत्रु भयङ्करी ।
       भक्तेभ्यो वरदे देवि त्राहि मां शरणागतम् ।।१।।

 ॐ सुरासुरार्चिते देवि सिद्ध गन्धर्व सेविते ।
          जाड्यपापहरे देवि त्राहि मां शरणागतम् ॥२॥

 ॐ जटाजूट समायुक्ते लोलजिह्वान्तकारिणी ।
           द्रुतबुद्धिकरे देवि त्राहि मां शरणागतम् ।।३।।

 ॐ सौम्यक्रोधधरे रुपे चण्डरूपे नमोऽस्तु ते ।
        सृष्टिरूपे नमस्तुभ्यं त्राहि मां शरणागतम् ॥४॥

ॐ जडानां जडतां हन्ति भक्तानां भक्तवत्सला ।
          मूढतां हर मे देवि त्राहि मां शरणागतम् ||||

ॐ हूं हूंकारमये देवि बलिहोमप्रिये नमः ।
         उग्रतारे नमो नित्यं त्राहि मां शरणागतम् ||||

ॐ बुद्धिं देहि यशो देहि कवित्वं देहि देवि मे ।
          मूढत्वं च हरेर्देवि त्राहि मां शरणागतम् ||||

इन्द्रादिविलसन्देववन्दिते करुणामयी।
       तारे तारधिनाथास्थे त्राहि मां शरणागतम् ॥ ८॥

                   ||अथ फलश्रुतिः ॥

ॐ अष्टम्यां च चतुर्दश्यां नवम्यां च पठेन्नरः ।
            षण्मासैः सिद्धिमाप्नोति नात्र कार्या विचारणा ॥१॥

ॐ मोक्षार्थी लभते मोक्षं धनार्थी लभते धनम् ।
         विध्यार्थी लभते विद्यां तर्कव्याकरणादिकाम् ॥२॥

ॐ इदं स्तोत्रं पठेद्यस्तु सततं श्रद्धयान्वितः ।
         तस्य शत्रुः क्षयं याति महाप्रज्ञा प्रजायते ||||

पीडायां यापि सङ्ग्रामे जाड्ये दाने तथा भये ।
           य इदं पठति स्तोत्रं शुभं तस्य न संशयः .।।4।।
          इति प्रणम्य स्तुत्वा च योनिमुद्रां प्रदर्शयेत् ।
        ॥इति श्री नील सरस्वती स्तोत्रं सम्पूर्णम् ॥


શ્રી સરસ્વતી સ્તોત્ર ( 2 )

श्रीसरस्वतीस्तोत्रं बृहस्पतिविरचितम्

श्रीगणेशाय नमः ।
बृहस्पतिरुवाच
सरस्वति नमस्यामि चेतनां हृदि संस्थिताम् ।
कण्ठस्थां पद्मयोनिं त्वां ह्रीङ्कारां सुप्रियां सदा ॥ १॥
मतिदां वरदां चैव सर्वकामफलप्रदाम् ।
मन्त्रप्रियां सदा हृद्यां कुमतिध्वंसकारिणीम् ।
केशवस्य प्रियां देवीं वीणाहस्तां वरप्रदाम् ॥ २॥
मोक्षप्रियां शुभां नित्यां सुभगां शोभनप्रियाम् ।
स्वप्रकाशां निरालम्बामज्ञानतिमिरापहाम् ॥ ३॥
आदित्यमण्डले लीनां प्रणमामि जनप्रियाम् ।
पद्मोपविष्टां कुण्डलिनीं शुक्लवस्त्रां मनोहराम् ॥ ४॥
आत्मानं दर्शयामास शरदिन्दुसमप्रभाम् ॥ ६॥
ज्ञानाकारां जगद्द्वीपां भक्तविघ्नविनाशिनीम् ॥ ५॥ इति सत्यं स्तुता देवी वागीशेन महात्मना ।
प्रसन्ना यदि मे देवि परं ज्ञानं प्रयच्छ मे ॥ ७॥
श्रीसरस्वत्युवाच वरं वृणीष्व भद्रं त्वं यत्ते मनसि वर्तते । बृहस्पतिरुवाच श्रीसरस्वत्युवाच
लभन्ते परमं ज्ञानं मम तुल्यपराक्रमाः ।
दत्तं ती निर्मलं ज्ञानं कुमतिध्वंसकारकम् । स्तोत्रेणानेन मां भक्त्या ये स्तुवन्ति सदा नराः ॥ ८॥
तस्य कण्ठे सदा वासं करिष्यामि न संशयः ॥ १०॥
कवित्वं मत्प्रसादेन प्राप्नुवन्ति मनोगतम् ॥ ९॥ त्रिसन्ध्यं प्रयतो भूत्वा यस्त्विमं पठते नरः ।
सम्पूर्णम् ॥
॥ इति श्रीरुद्रयामले श्रीबृहस्पतिविरचितं सरस्वतीस्तोत्रम्

શ્રી સરસ્વતી સ્તોત્ર

श्रीसरस्वतीस्तोत्रम्

रविरुद्रपितामहविष्णुनुतं हरिचन्दनकुङ्कुमपङ्कयुतम् मुनिवृन्दगजेन्द्रसमानयुतं तव नौमि सरस्वति पादयुगम् ॥ १॥
शशिशुद्धसुधाहिमधामयुतं
      शरदम्बरबिम्बसमानकरम् ।
बहुरत्नमनोहरकान्तियुतं
      तव नौमि सरस्वति पादयुगम् ॥ २॥
कनकाब्जविभूषितभूतिभवं
      भवभावविभावितभिन्नपदम् ।
प्रभुचित्तसमाहितसाधुपदं
      तव नौमि सरस्वति पादयुगम् ॥ ३॥


भवसागरमज्जनभीतिनुतं
      प्रतिपादितसन्ततिकारमिदम् ।
विमलादिकशुद्धविशुद्धपदं
      तव नौमि सरस्वति पादयुगम् ॥ ४॥

मतिहीनजनाश्रयपारमिदं
      सकलागमभाषितभिन्नपदम् ।
परिपूरितविश्वमनेकभवं
      तव नौमि सरस्वति पादयुगम् ॥ ५॥

परिपूर्णमनोरथधामनिधिं
      परमार्थविचारविवेकविधिम् ।
सुरयोषितसेवितपादतलं
      तव नौमि सरस्वति पादयुगम् ॥ ६॥

सुरमौलिमणिद्युतिशुभ्रकरं
      विषयादिमहाभयवर्णहरम् ।
निजकान्तिविलोमितचन्द्रशिवं
      तव नौमि सरस्वति पादयुगम् ॥ ७॥

गुणनैककुलं स्थितिभीतिपदं
      गुणगौरवगर्वितसत्यपदम् ।
कमलोदरकोमलपादतलं
      तव नौमि सरस्वति पादयुगम् ॥ ८॥

इदं स्तवं महापुण्यं ब्रह्मणा च प्रकीर्तितम् ।यः पठेत् प्रातरुत्थाय तस्य कण्ठे सरस्वती ॥

Featured Post

राघवाष्टकम्

  *जय द्वारकाधीश* *॥ राघवाष्टकम् ॥*  राघवं करुणाकरं मुनि-सेवितं सुर-वन्दितं जानकीवदनारविन्द-दिवाकरं गुणभाजनम् ।  वालिसूनु-हितैषिणं हनुमत्प्र...