Divyesh Joshi

પુરાણ જ્ઞાન : શ્રી સરસ્વતી સ્તોત્ર

શ્રી સરસ્વતી સ્તોત્ર

श्रीसरस्वतीस्तोत्रम्

रविरुद्रपितामहविष्णुनुतं हरिचन्दनकुङ्कुमपङ्कयुतम् मुनिवृन्दगजेन्द्रसमानयुतं तव नौमि सरस्वति पादयुगम् ॥ १॥
शशिशुद्धसुधाहिमधामयुतं
      शरदम्बरबिम्बसमानकरम् ।
बहुरत्नमनोहरकान्तियुतं
      तव नौमि सरस्वति पादयुगम् ॥ २॥
कनकाब्जविभूषितभूतिभवं
      भवभावविभावितभिन्नपदम् ।
प्रभुचित्तसमाहितसाधुपदं
      तव नौमि सरस्वति पादयुगम् ॥ ३॥


भवसागरमज्जनभीतिनुतं
      प्रतिपादितसन्ततिकारमिदम् ।
विमलादिकशुद्धविशुद्धपदं
      तव नौमि सरस्वति पादयुगम् ॥ ४॥

मतिहीनजनाश्रयपारमिदं
      सकलागमभाषितभिन्नपदम् ।
परिपूरितविश्वमनेकभवं
      तव नौमि सरस्वति पादयुगम् ॥ ५॥

परिपूर्णमनोरथधामनिधिं
      परमार्थविचारविवेकविधिम् ।
सुरयोषितसेवितपादतलं
      तव नौमि सरस्वति पादयुगम् ॥ ६॥

सुरमौलिमणिद्युतिशुभ्रकरं
      विषयादिमहाभयवर्णहरम् ।
निजकान्तिविलोमितचन्द्रशिवं
      तव नौमि सरस्वति पादयुगम् ॥ ७॥

गुणनैककुलं स्थितिभीतिपदं
      गुणगौरवगर्वितसत्यपदम् ।
कमलोदरकोमलपादतलं
      तव नौमि सरस्वति पादयुगम् ॥ ८॥

इदं स्तवं महापुण्यं ब्रह्मणा च प्रकीर्तितम् ।यः पठेत् प्रातरुत्थाय तस्य कण्ठे सरस्वती ॥

Featured Post

राघवाष्टकम्

  *जय द्वारकाधीश* *॥ राघवाष्टकम् ॥*  राघवं करुणाकरं मुनि-सेवितं सुर-वन्दितं जानकीवदनारविन्द-दिवाकरं गुणभाजनम् ।  वालिसूनु-हितैषिणं हनुमत्प्र...