Divyesh Joshi

પુરાણ જ્ઞાન : nav grah
લેબલ nav grah સાથે પોસ્ટ્સ બતાવી રહ્યું છે. બધી પોસ્ટ્સ બતાવો
લેબલ nav grah સાથે પોસ્ટ્સ બતાવી રહ્યું છે. બધી પોસ્ટ્સ બતાવો

श्रीकालिकाष्टकम्



*श्रीकालिकाष्टकम्* 


ध्यानम् । 


                 गलद्रक्तमुण्डावलीकण्ठमाला महोघोररावा सुदंष्ट्रा कराला । 
                विवस्त्रा श्मशानालया मुक्तकेशी महाकालकामाकुला कालिकेयम् ॥ १॥ 
                भुजेवामयुग्मे शिरोऽसिं दधाना वरं दक्षयुग्मेऽभयं वै तथैव ।
                सुमध्याऽपि तुङ्गस्तना भारनम्रा लसद्रक्तसृक्कद्वया सुस्मितास्या ॥ २॥ 
                शवद्वन्द्वकर्णावतंसा सुकेशी लसत्प्रेतपाणिं प्रयुक्तैककाञ्ची ।
                शवाकारमञ्चाधिरूढा शिवाभिश्- चतुर्दिक्षुशब्दायमानाऽभिरेजे ॥ ३॥ 


॥ अथ स्तुतिः ॥ 


विरञ्च्यादिदेवास्त्रयस्ते गुणास्त्रीन् समाराध्य कालीं प्रधाना बभूबुः ।
 अनादिं सुरादिं मखादिं भवादिं स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥ १॥ 

जगन्मोहिनीयं तु वाग्वादिनीयं सुहृत्पोषिणीशत्रुसंहारणीयम् । 
वचस्तम्भनीयं किमुच्चाटनीयं स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥ २॥ 

इयं स्वर्गदात्री पुनः कल्पवल्ली मनोजास्तु कामान् यथार्थं प्रकुर्यात् ।
 तथा ते कृतार्था भवन्तीति नित्यं स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥ ३॥ 

सुरापानमत्ता सुभक्तानुरक्ता लसत्पूतचित्ते सदाविर्भवत्ते ।
 जपध्यानपूजासुधाधौतपङ्का स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥ ४॥ 

चिदानन्दकन्दं हसन् मन्दमन्दं शरच्चन्द्रकोटिप्रभापुञ्जबिम्बम् ।
 मुनीनां कवीनां हृदि द्योतयन्तं स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥ ५॥ 

महामेघकाली सुरक्तापि शुभ्रा कदाचिद् विचित्राकृतिर्योगमाया ।
 न बाला न वृद्धा न कामातुरापि स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥ ६॥ 

क्षमस्वापराधं महागुप्तभावं मया लोकमध्ये प्रकाशिकृतं यत् । 
तव ध्यानपूतेन चापल्यभावात् स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥ ७॥ 

यदि ध्यानयुक्तं पठेद् यो मनुष्यस्- तदा सर्वलोके विशालो भवेच्च ।
 गृहे चाष्टसिद्धिर्मृते चापि मुक्तिः स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥ ८॥ 

॥ इति श्रीमच्छङ्कराचार्यविरचितं श्रीकालिकाष्टकं सम्पूर्णम् ॥

अङ्गारकस्तोत्रम्


  પુરાણ જ્ઞાન


             *॥ अङ्गारकस्तोत्रम् ॥* 


अस्य श्री अङ्गारकस्तोत्रस्य । विरूपाङ्गिरस ऋषिः । अग्निर्देवता । गायत्री छन्दः । भौमप्रीत्यर्थं जपे विनियोगः । 


अङ्गारकः शक्तिधरो लोहिताङ्गो धरासुतः ।
 कुमारो मङ्गलो भौमो महाकायो धनप्रदः ॥ १॥ 

ऋणहर्ता दृष्टिकर्ता रोगकृद्रोगनाशनः । 
विद्युत्प्रभो व्रणकरः कामदो धनहृत् कुजः ॥ २॥ 

सामगानप्रियो रक्तवस्त्रो रक्तायतेक्षणः । 
लोहितो रक्तवर्णश्च सर्वकर्मावबोधकः ॥ ३॥ 

रक्तमाल्यधरो हेमकुण्डली ग्रहनायकः । 
नामान्येतानि भौमस्य यः पठेत्सततं नरः ॥ ४॥ 

ऋणं तस्य च दौर्भाग्यं दारिद्र्यं च विनश्यति ।
 धनं प्राप्नोति विपुलं स्त्रियं चैव मनोरमाम् ॥ ५॥ 

वंशोद्द्योतकरं पुत्रं लभते नात्र संशयः । 
योऽर्चयेदह्नि भौमस्य मङ्गलं बहुपुष्पकैः ॥ ६॥ 

सर्वा नश्यति पीडा च तस्य ग्रहकृता ध्रुवम् ॥ ७॥ 

॥ इति श्रीस्कन्दपुराणे अङ्गारकस्तोत्रं संपूर्णम् ॥ 

સુર્ય સ્તોત્ર


॥ सूर्यस्तोत्रम् १ ॥

अथ सूर्यस्तोत्रप्रारम्भः ।
अस्य श्रीभगवत्सूर्यस्तोत्रमहामन्त्रस्य अगस्त्य ऋषिः । अनुष्टुप्छन्दः ।
श्रीसूर्यनारायणो देवता । सूं बीजम् ।
आदित्याय अङ्गुष्ठाभ्यां नमः । अर्कायतर्जनीभ्यां नमः ।
रिं शक्तिः । यं कीलकम् । सूर्यप्रसादसिद्ध्यर्थे जपे विनियोगः ।
सहस्रकिरणाय कनिष्ठिकाभ्यां नमः । मार्ताण्डाय करतलकरपृष्ठाभ्यां नमः।
दिवाकराय मध्यमाभ्यां नमः । प्रभाकराय अनामिकाभ्यां नमः । आदित्याय हृदयाय नमः । अर्काय शिरसे स्वाहा ।
भूर्भुवः सुवरोमिति दिग्बन्धः ॥
दिवाकराय शिखायै वषट् । प्रभाकराय कवचाय हुम् । सहस्रकिरणाय नेत्रत्रयाय वौषट् । मार्ताण्डाय अस्त्राय फट् । ध्यानम् ।
भक्ताभीष्टवरप्रदं दिनमणिं मार्ताण्डमाद्यं शुभम् ॥ १ ॥
ध्यायेत् सूर्यमनन्तशक्तिकिरणं तेजोमयं भास्वरं भक्तानामभयप्रदं दिनकरं ज्योतिर्मयं शङ्करम् । आदित्यं जगदीशमच्युतमजं त्रैलोक्यचूडामणिं
जन्ममृत्युजराव्याधिसंसारभयनाशनः ॥ ३॥
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः । पञ्चब्रह्ममयाकाराः येन जाता नमामि तम् ॥ २ ॥ कालात्मा सर्वभूतात्मा वेदात्मा विश्वतोमुखः । ब्रह्मस्वरूप उदये मध्याह्ने तु सदाशिवः ।
अण्डयोने कर्मसाक्षिन्नादित्याय नमो नमः ॥ ६॥
अस्तकाले स्वयं विष्णुस्त्रयीमूर्तिर्दिवाकरः ॥ ४॥ एकचक्रो रथो यस्य दिव्यः कनकभूषितः । सोऽयं भवतु नः प्रीतः पद्महस्तो दिवाकरः ॥ ५॥ पद्महस्तः परञ्ज्योतिः परेशाय नमो नमः । कमलासन देवेश कर्मसाक्षिन्नमो नमः ।
सर्वसम्पत्करं चैव सर्वाभीष्टप्रदायकम् ॥ १०॥
धर्ममूर्ते दयामूर्ते तत्त्वमूर्ते नमो नमः ॥ ७॥ सकलेशाय सूर्याय सर्वज्ञाय नमो नमः । क्षयापस्मारगुल्मादिव्याधिहन्त्रे नमो नमः ॥ ८॥ सर्वज्वरहरं चैव सर्वरोगनिवारणम् । स्तोत्रमेतच्छिवप्रोक्तं सर्वसिद्धिकरं परम् ॥ ९॥
इति सूर्यस्तोत्रं सम्पूर्णम् ।

नवग्रह बीजमंत्र





नवग्रह बीजमंत्र / जप संख्या और जप समय*
______________
*कष्ट निवारण और ग्रहपीड़ा शांति हेतु हिन्दू परंपरा में नवग्रहों के बीजमंत्र
जप का विधान है. कष्टों और पीड़ा का संबंध जिस ग्रह से हो उसके बीजमंत्र
जप बहुत लाभ देते हैं. विधिपूर्वक जप पूर्ण कर लेने पर संबंधित ग्रह की कृपा
प्राप्त होती है और कष्टों का निवारण सहज ही हो जाता है.*

*नवग्रह मंत्र और जप संख्या इस प्रकार से हैं*
*:point_right:सूर्य – ॐ ह्रां ह्रीं ह्रौं स: सूर्याय नमः*
जप संख्या – 7000
जप समय – सूर्योदय काल
*:point_right:चंद्रमा – ॐ श्रां श्रीं श्रौं स: चंद्राय नमः*
जप संख्या – 11000
जप समय – संध्याकाल
*:point_right:मंगल – ॐ क्रां क्रीं क्रौं स: भौमाय नमः*
जप संख्या – 10000
जप समय – दिन का प्रथम प्रहर
*:point_right:बुध – ॐ ब्रां ब्रीं ब्रौं स: बुधाय नमः*
जप संख्या – 9000
जप समय – मध्याह्न काल
*:point_right:बृहस्पति – ॐ ग्रां ग्रीं ग्रौं स: गुरवे नमः*
जप संख्या – 19000
जप समय – प्रात:काल
*:point_right:शुक्र – ॐ द्रां द्रीं द्रौं स: शुक्राय नमः*
जप संख्या – 18000
जप समय – ब्रह्मवेला
*:point_right:शनि – ॐ प्रां प्रीं प्रौं स: शनैश्चराय नमः*
जप संख्या – 23000
जप समय – संध्याकाल
*:point_right:राहु – ॐ भ्रां भ्रीं भ्रौं स: राहवे नमः*
जप संख्या – 18000
जप समय – रात्रिकाल
*:point_right:केतु – ॐ स्रां स्रीं स्रौं स: केतवे नमः*
जप संख्या – 17000
जप समय – रात्रिकाल
*जप संकल्प करने पर प्रतिदिन कम से कम एक माला (108 बार)*
x

Featured Post

राघवाष्टकम्

  *जय द्वारकाधीश* *॥ राघवाष्टकम् ॥*  राघवं करुणाकरं मुनि-सेवितं सुर-वन्दितं जानकीवदनारविन्द-दिवाकरं गुणभाजनम् ।  वालिसूनु-हितैषिणं हनुमत्प्र...