Divyesh Joshi

પુરાણ જ્ઞાન : अङ्गारकस्तोत्रम्

अङ्गारकस्तोत्रम्


  પુરાણ જ્ઞાન


             *॥ अङ्गारकस्तोत्रम् ॥* 


अस्य श्री अङ्गारकस्तोत्रस्य । विरूपाङ्गिरस ऋषिः । अग्निर्देवता । गायत्री छन्दः । भौमप्रीत्यर्थं जपे विनियोगः । 


अङ्गारकः शक्तिधरो लोहिताङ्गो धरासुतः ।
 कुमारो मङ्गलो भौमो महाकायो धनप्रदः ॥ १॥ 

ऋणहर्ता दृष्टिकर्ता रोगकृद्रोगनाशनः । 
विद्युत्प्रभो व्रणकरः कामदो धनहृत् कुजः ॥ २॥ 

सामगानप्रियो रक्तवस्त्रो रक्तायतेक्षणः । 
लोहितो रक्तवर्णश्च सर्वकर्मावबोधकः ॥ ३॥ 

रक्तमाल्यधरो हेमकुण्डली ग्रहनायकः । 
नामान्येतानि भौमस्य यः पठेत्सततं नरः ॥ ४॥ 

ऋणं तस्य च दौर्भाग्यं दारिद्र्यं च विनश्यति ।
 धनं प्राप्नोति विपुलं स्त्रियं चैव मनोरमाम् ॥ ५॥ 

वंशोद्द्योतकरं पुत्रं लभते नात्र संशयः । 
योऽर्चयेदह्नि भौमस्य मङ्गलं बहुपुष्पकैः ॥ ६॥ 

सर्वा नश्यति पीडा च तस्य ग्रहकृता ध्रुवम् ॥ ७॥ 

॥ इति श्रीस्कन्दपुराणे अङ्गारकस्तोत्रं संपूर्णम् ॥ 

Featured Post

राघवाष्टकम्

  *जय द्वारकाधीश* *॥ राघवाष्टकम् ॥*  राघवं करुणाकरं मुनि-सेवितं सुर-वन्दितं जानकीवदनारविन्द-दिवाकरं गुणभाजनम् ।  वालिसूनु-हितैषिणं हनुमत्प्र...