Divyesh Joshi

પુરાણ જ્ઞાન : શ્રી સરસ્વતી સ્તોત્ર ( 2 )

શ્રી સરસ્વતી સ્તોત્ર ( 2 )

श्रीसरस्वतीस्तोत्रं बृहस्पतिविरचितम्

श्रीगणेशाय नमः ।
बृहस्पतिरुवाच
सरस्वति नमस्यामि चेतनां हृदि संस्थिताम् ।
कण्ठस्थां पद्मयोनिं त्वां ह्रीङ्कारां सुप्रियां सदा ॥ १॥
मतिदां वरदां चैव सर्वकामफलप्रदाम् ।
मन्त्रप्रियां सदा हृद्यां कुमतिध्वंसकारिणीम् ।
केशवस्य प्रियां देवीं वीणाहस्तां वरप्रदाम् ॥ २॥
मोक्षप्रियां शुभां नित्यां सुभगां शोभनप्रियाम् ।
स्वप्रकाशां निरालम्बामज्ञानतिमिरापहाम् ॥ ३॥
आदित्यमण्डले लीनां प्रणमामि जनप्रियाम् ।
पद्मोपविष्टां कुण्डलिनीं शुक्लवस्त्रां मनोहराम् ॥ ४॥
आत्मानं दर्शयामास शरदिन्दुसमप्रभाम् ॥ ६॥
ज्ञानाकारां जगद्द्वीपां भक्तविघ्नविनाशिनीम् ॥ ५॥ इति सत्यं स्तुता देवी वागीशेन महात्मना ।
प्रसन्ना यदि मे देवि परं ज्ञानं प्रयच्छ मे ॥ ७॥
श्रीसरस्वत्युवाच वरं वृणीष्व भद्रं त्वं यत्ते मनसि वर्तते । बृहस्पतिरुवाच श्रीसरस्वत्युवाच
लभन्ते परमं ज्ञानं मम तुल्यपराक्रमाः ।
दत्तं ती निर्मलं ज्ञानं कुमतिध्वंसकारकम् । स्तोत्रेणानेन मां भक्त्या ये स्तुवन्ति सदा नराः ॥ ८॥
तस्य कण्ठे सदा वासं करिष्यामि न संशयः ॥ १०॥
कवित्वं मत्प्रसादेन प्राप्नुवन्ति मनोगतम् ॥ ९॥ त्रिसन्ध्यं प्रयतो भूत्वा यस्त्विमं पठते नरः ।
सम्पूर्णम् ॥
॥ इति श्रीरुद्रयामले श्रीबृहस्पतिविरचितं सरस्वतीस्तोत्रम्

Featured Post

राघवाष्टकम्

  *जय द्वारकाधीश* *॥ राघवाष्टकम् ॥*  राघवं करुणाकरं मुनि-सेवितं सुर-वन्दितं जानकीवदनारविन्द-दिवाकरं गुणभाजनम् ।  वालिसूनु-हितैषिणं हनुमत्प्र...