Divyesh Joshi

પુરાણ જ્ઞાન : पुत्रप्राप्तिकरं श्रीमहालक्ष्मीस्तोत्रम्

पुत्रप्राप्तिकरं श्रीमहालक्ष्मीस्तोत्रम्




*पुत्रप्राप्तिकरं श्रीमहालक्ष्मीस्तोत्रम्* 

*जय द्वारकाधीश*


अनाद्यनन्तरूपां त्वां जननीं सर्वदेहिनाम् ।
 श्रीविष्णुरूपिणीं वन्दे महालक्ष्मीं परमेश्वरीम् ॥ १॥ 

नामजात्यादिरूपेण स्थितां त्वां परमेश्वरीम् ।
 श्रीविष्णुरूपिणीं वन्दे महालक्ष्मीं परमेश्वरीम् ॥ २॥ 

व्यक्ताव्यक्तस्वरूपेण कृत्स्नं व्याप्य व्यवस्थिताम् ।
श्रीविष्णुरूपिणीं वन्दे महालक्ष्मीं परमेश्वरीम् ॥ ३॥ 

भक्तानन्दप्रदां पूर्णां पूर्णकामकरीं पराम् ।
श्रीविष्णुरूपिणीं वन्दे महालक्ष्मीं परमेश्वरीम् ॥ ४॥ 

अन्तर्याम्यात्मना विश्वमापूर्य हृदि संस्थिताम् ।
 श्रीविष्णुरूपिणीं वन्दे महालक्ष्मीं परमेश्वरीम् ॥ ५॥ 

सर्पदैत्यविनाशार्थं लक्ष्मीरूपां व्यवस्थिताम् ।
 श्रीविष्णुरूपिणीं वन्दे महालक्ष्मीं परमेश्वरीम् ॥ ६॥ 

भुक्तिं मुक्तिं च या दातुं संस्थितां करवीरके ।
श्रीविष्णुरूपिणीं वन्दे महालक्ष्मीं परमेश्वरीम् ॥ ७॥ 

सर्वाभयप्रदां देवीं सर्वसंशयनाशिनीम् ।
श्रीविष्णुरूपिणीं वन्दे महालक्ष्मीं परमेश्वरीम् ॥ ८॥ 

॥ इति श्रीकरवीरमाहात्म्ये पराशरकृतं पुत्रप्राप्तिकरं श्रीमहालक्ष्मीस्तोत्रं सम्पूर्णम् ॥


Featured Post

राघवाष्टकम्

  *जय द्वारकाधीश* *॥ राघवाष्टकम् ॥*  राघवं करुणाकरं मुनि-सेवितं सुर-वन्दितं जानकीवदनारविन्द-दिवाकरं गुणभाजनम् ।  वालिसूनु-हितैषिणं हनुमत्प्र...