Divyesh Joshi

પુરાણ જ્ઞાન : શ્રી હનુમાન શ્લોક

શ્રી હનુમાન શ્લોક

॥ श्रीहनूमत्स्मरणम् ॥

प्रातः स्मरामि हनुमन्तमनन्तवीर्यं श्रीरामचन्द्रचरणाम्बुजचञ्चरीकम् । लङ्कापुरीदहननन्दितदेववृन्दं सर्वार्थसिद्धिसदनं प्रथितप्रभावम् ॥ १॥
माध्यं नमामि वृजिनार्णवतारणैक-
            धीरं शरण्यमुदितानुपमप्रभावम् ।
सीताऽऽधिसिन्धुपरिशोषणकर्मदक्षं
            वन्दारुकल्पतरुमव्ययमाञ्जनेयम् ॥ २॥
सायं भजामि शरणोपसृताखिलार्ति-
            पुञ्जप्रणाशनविधौ प्रथितप्रतापम् ।
अक्षान्तकं सकलराक्षसवंशधूम-
            केतुं प्रमोदितविदेहसुतं दयालुम् ॥ ३॥

Featured Post

राघवाष्टकम्

  *जय द्वारकाधीश* *॥ राघवाष्टकम् ॥*  राघवं करुणाकरं मुनि-सेवितं सुर-वन्दितं जानकीवदनारविन्द-दिवाकरं गुणभाजनम् ।  वालिसूनु-हितैषिणं हनुमत्प्र...