॥ नन्दनन्दन श्रीकृष्णाष्टकम् ॥
भजे व्रजैकमंडनं समस्तपापखण्डनं
स्वभक्तचित्तरंजनं सदैव नन्दनन्दनम् ।
सुपिच्छगुच्छ-मस्तकं सुनादवेणुहस्तकं
अनंगरंगसागरं नमामि कृष्ण-नागरम् ॥ १ ॥
मनोज-गर्वमोचनं विशाल-लोल-लोचनं
विधूतगोपशोचनं नमामि पद्मलोचनम् ।
करारविन्दभूवरं स्मितावलोकसुन्दरं
महेन्द्रमानदारणं नमामि कृष्णवारणम् ॥ २ ॥
कदम्बसूनकुण्डलं सचारुगण्डमण्डलं
व्रजाङ्गनैकवल्लभं नमामि कृष्ण-दुर्लभम् ।
यशोदया समोदया सगोपया सनन्दया
युतं सुखैकदायकं नमामि गोपनायकम् ॥ ३ ॥
सदैव पादपंकजं मदीयमानसे निजं
दधानमुत्तमालकं नमामि नन्दबालकम् ।
समस्तदोष-शोषणं समस्तलोकपोषणं
समस्तगोप-मानसं नमामि कृष्णलालसम् ॥ ४ ॥
भुवो भरावतारकं भवाब्धिकर्णधारकं
यशोमती-किशू-रकं नमामि दुग्धचोरकम् ।
दृगन्तकान्तभंगिनं सदासदालसंगिनं
दिनेदिने नवं नवं नमामि नन्दसम्भवम् ॥ ५ ॥
गुणाकरं सुखाकरं कृपाकरं कृपावरं
सुरद्विष-न्निकन्दनं नमामि गोपनन्दनम् ।
नवीनगोपनागरं नवीनकेलि-लम्पटं
नमामि मेघसुन्दरं तडित्प्रभालसत्पटम् ॥ ६ ॥
समस्तगोपनन्दनं हृदम्बुजैकमोहनं
नमामि कुंजमध्यगं प्रसन्नभानुशोभनम् ।
निकाम-कामदायकं दृगन्तचारु-सायकं
रसालवेणु-गायकं नमामि कुंजनायकम् ॥ ७ ॥
विदग्ध-गोपिका-मनो-मनोज्ञतल्प-शायिनं
नमामि कुंजकानने प्रवृद्ध-वह्नि-पायिनम् ।
यदा तदा यथा तथा तथैव कृष्णसत्कथा
मया सदैव गीयतां तथा कृपा विधीयताम् ।
प्रमाणिकाष्टकद्वयं जपत्यधीत्य यः पुमान्
भवेत् स नन्दनन्दने भवे भवे सुभक्तिमान् ॥ ८ ॥
વેદ પુરાણ અને શાસ્ત્રો ના વિષયો પર જ્ઞાન સાથે ના લેખો અને જ્યોતિષ ના લેખો. જો તમે વેદ અને પુરાણ ને જાણવાની ઇચ્છા રાખો છો તો તમારે આપ બ્લોગ ને દરોજ વાચવી આ બ્લોગ માં સમયે નવી અને જાણવા જેવી પોસ્ટ મૂકવા માં આવે છે જે તમને પુરાણી જાણકારી આપસે અને વેદ અને પુરાણ ની જાણકારી વધારવા માં સહાયતા કરસે ...ved and puran's and jyotish discuss,and give a solution for life and astrology fact in the post
શ્રી કૃષ્ણાષ્ટક
Featured Post
राघवाष्टकम्
*जय द्वारकाधीश* *॥ राघवाष्टकम् ॥* राघवं करुणाकरं मुनि-सेवितं सुर-वन्दितं जानकीवदनारविन्द-दिवाकरं गुणभाजनम् । वालिसूनु-हितैषिणं हनुमत्प्र...
